________________
प्रमेयकमलमार्तण्डे प्रथमपरि० स्तत्राविद्यमानत्वेप्युत्पत्त्युपगमेऽर्थग्रहणशक्या कोपराधः कृतो येनास्यास्ततः समुत्पादो नेष्यते ? न चेमाः शक्तयः स्वाधारेभ्यः समासादितव्यतिरेकाः येन वाधाराभिमतविज्ञानवत कारणेभ्यो नोदयमासादयेयुः। पाश्चात्यसंवादप्रत्ययेन प्रामाण्य५स्याजन्यत्वात्वतो भावेऽप्रामाण्यस्यापि सोस्तु । न खलुत्पन्ने विज्ञाने तदप्युत्तरकालभाविविसंवादप्रत्ययाद्भवति ।
यच्चोक्तम्- लब्धात्मनां स्वकार्येषु प्रवृत्तिः स्वयमेव तु तदप्युक्तिमात्रम्; यथावस्थितार्थव्यवसायरूपं हि संवेदनं प्रमाणम्,
तस्यात्मलामे कारणापेक्षायां कोऽन्यों वकार्ये प्रवृत्तिर्या स्वयमेव १० स्यात् ? घटस्य तु जलोद्वहनव्यापारात्पूर्व रुपान्तरेणापि खहे. तोरुत्पत्तेर्युक्ता मृदादिकारण निरपेक्षस्य तंत्र प्रवृत्तिः प्रतीतिनिवन्धनत्वाद्वस्तुव्यवस्थायाः । विज्ञानस्य तूत्पत्त्यनन्तरमेव विनाशोपगमात्कुतो लब्धात्मनो वृत्तिः स्वयमेव स्यात् । तदुक्तम्
"न हि तत्क्षणमप्यास्ते जीयते वाऽप्रमात्मकम् । येनार्थग्रहणे पश्चौद्याप्रियतेन्द्रियादिवत् ॥१॥ तेने जन्मैव बुद्धर्विषये व्यापार उच्यते । १ परेण । २ कर्तृभूतया। ३ सापि ज्ञानेऽविद्यमाना इन्द्रियैर्जन्यताम् । ४ परेण। ५ ज्ञानेभ्यः। ६ प्राप्तभेदाः। ७ आक्षेपे। ८ यथा शक्तया आधारीभूतविशनं कारणेभ्यो न तथेमा इत्यर्थः । ९ परेणाङ्गीकृते । १० परेण । ११ प्रामाण्यं कथ्यते। १२ आक्षेपोक्तिः । १३ प्रामाण्य । १४ अर्थपरिच्छित्तिरूपे प्रवृत्तिरूपे च। १५ न कापि । १६ रिक्ततारूपेण । १७ जलाहरणलक्षणे स्वकार्ये । १८ परमते । १९ न हि। २० अप्रमिति । २१ आक्षेपे। २२ शानस्य लक्षणान्तरे अवस्थानप्रकारेण अप्रमात्मकभवनप्रकारेण। २३ उत्पत्त्यनन्तरम् । २४ आत्मनः ! २५ क्षणमपि नास्ते अप्रमात्मकं वा न जायते येन प्रकारेण । २६ व्यापृतिः ।
1"अप्रामाण्यमपि चैवं स्वतः स्यात्, नहि तदपि उत्पन्ने ज्ञाने विसंवादप्रत्ययादुत्तरकालभाविनः तत्रोत्पद्यते इति कस्यचिदभ्युपगमः ।"
सन्मति० टी० पृ० १०। 2 "ततश्च स्वार्थावबोधशक्तिरूपप्रामाण्यात्मलामे चेत् कारणापेक्षा कान्या स्वकार्ये प्रवृत्तिर्या स्वयमेव स्यात् घटस्य जलोद्वहनव्यापारात्पूर्व रूपान्तरेण स्वहेतोरुत्पत्तेयुक्तं मृदादिकारणनिरपेक्षस्य स्वकार्ये प्रवृत्तिरिति विसदृशमुदाहरणम् ।"
सन्मति० टी० पृ० १०॥ 3 "यत्तु शानं त्वयापीष्टं जन्मानन्तरमस्थिरम् । लब्धात्मनोऽसतः पश्चाद्व्यापारस्तस्य कीदृशः ॥ २९२२ ॥
तत्त्वसं० पृ० ७७०।