________________
सू० ११३] प्रामाण्यवादः येनोपलम्भसामान्येऽप्ययं पैर्य योगः स्यात् । लोकं च प्रमाणयतोभयं परतः प्रतिपत्तव्यम् । सुप्रसिद्धो हि लोकेऽप्रामाण्ये दोषावष्टब्धचक्षुषो व्यापारः, प्रामाण्ये नैर्मल्यादियुक्तस्य, 'यत्पूर्व दोषावष्टब्धमिन्द्रियं मिथ्याप्रतिपत्तिहेतुस्तदेवेदानीं नैर्मल्यादियुक्तं सम्यक्प्रतिपत्तिहेतुः, इति प्रतीतेः।
यहोच्यते-कचिन्निर्मलमपीन्द्रियं मिथ्याप्रतीतिहेतुरन्यत्रारक्तादिस्वभावं सत्यप्रतीतिहेतुः, तत्रापि प्रतिपत्तुर्दोषः स्वच्छनील्यादिमले निर्मलाभिप्रायात् । अनेकप्रकारो हि दोषः प्रकृत्यादिभेदात् , तेदभावोपि भावान्तरस्वभावस्तथाविधस्तत एव । न चोत्पन्न सद्विज्ञानं प्रामाण्ये नैर्मल्यादिकमपेक्षते येनानयोभदः स्यात् । १० गुणवच्चक्षुरादिभ्यो जायमानं हि तदुपात्तप्रामाण्यमेवोपजायते।
अर्थतथाभावपरिच्छेदसामर्थ्यलक्षणप्रामाण्यस्य स्वतो भावाभ्युपंगमे च अर्थान्यथात्वपरिच्छेदसामर्थ्यलक्षणाप्रामाण्यस्याप्यविमानस्य केनचित्कर्तुमशक्तेः खतो भावोऽस्तु ।
कथं चैव वौदिनो ज्ञानरूपतात्मन्यविद्यमानेन्द्रियैर्जन्यते? तस्या-१५
१ विशेषरहितगोत्वादिसामान्योपलम्भप्रकारेण । गुणदोषरहितेन्द्रियसामान्योपलम्भप्रकारेण च। २ अपि शब्दोत्र एवकाराथें। ३ यतो यथार्थत्वायथार्थत्वे विहायेत्यादिः। ४ उपलम्भसामान्यस्यानुपलम्भलक्षणः । ५ अपि तु विशेषेप्ययं पर्यनुयोगो ज्ञातव्यः । ६ प्रामाण्यामप्रामाण्यं । ७ चक्षुषः। ८ नरे । ९ पुरुषान्तरे। १० पुरुषस्य । ११.निर्मल इति। १२ वातपित्तादि। १३ नेमल्यादिगुण। १४ अनेकप्रकारः । १५ गुणम् । १६ कालभेदः । १७ ज्ञानं कर्तु। १८ न हि स्वतोऽसती शक्तिरित्यस्य दोषमाह । १९ परेण । २० खाश्रयकारणे। २१ कारणेन । २२ यत्कारणेऽविधमानं तत्स्वत एव जायते इत्येवंवादिनः। २३ घटाद्याकारविशेषितज्ञानरूपता।
1 “यतो यदि लोकव्यवहारसमाश्रयणेन प्रामाण्याप्रामाण्ये व्यवस्थाप्येते तदा अप्रामाण्यवत् प्रामाण्यमपि परतो व्यवस्थापनीयम्...” सन्मति० टी० पृ० ९ ॥ 2"किच्चाप्रामाण्यमप्येवं स्वत एव प्रसज्यते ।
नहि स्वतोऽसतस्तस्य कुतश्चिदपि संभवः ॥ २८४३ ॥ ...तथाह्यप्रामाण्यमपि विपरीतार्थपरिच्छेदोत्पादिका शक्तिः, शक्तेश्च विज्ञानाश्रितायाः कालत्रयेऽप्यकरणात् प्रामाण्यवदप्रामाण्यात्मिका शक्तिः स्वत एव प्रसज्येत ।"
__ तत्त्वसं० पं० पृ० ७५५ । __ "एवमभिधानेऽयथावस्थितार्थपरिच्छेदशरप्यप्रामाण्यरूपाया असत्याः केनचिकर्तुमशक्तेस्तदपि स्वतः स्यात् ।"
सन्मति० टी० पृ० १॥ 3 "किंच, यद्यात्मन्यविद्यमानं रूपं कारणैर्नाधीयते कार्ये तदा कथमिन्द्रियादयो ज्ञाने (ज्ञान) रूपतामात्मन्यसतीमादधति विज्ञाने ? यथाऽविद्यमानापि सा तैराधीयते अर्थपरिच्छेदशक्तिं किन्नादधीरन् ?" तत्त्वसं० पं० पृ० ७५३ । सन्मति० टी० पृ०९।