SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ १६० प्रमेयकमलमार्तण्डे प्रथमपरि० उत्पत्तिप्रभृतितःप्रतीयमानत्वाविशेषात् ? यच्चक्षुरादिव्यतिरिक्त भावाभावानुविधायि तत्तत्कारणकम् , यथाऽप्रामाण्यम्, तथा च प्रामाण्यम् । यच्च तद्व्यतिरिक्तं कारणं ते गुणाः' इत्यनुमानतोपि तेषां सिद्धिः। ५ बच्चेन्द्रियगुणैः सह लिङ्गस्य प्रतिवन्धः प्रत्यक्षेण गृह्येत, अनुमानेन वेत्याधुक्तम् । तदप्ययुक्तम् । ऊहाख्यप्रमाणान्तरात्तत्प्रतिवन्धप्रतीतेः । कथं चाप्रामाण्यप्रतिपादकदोषप्रतीतिः? तंत्राप्यस्य समानत्वात् । नैर्मल्यादेर्मलाभावरूपत्वात्कथं गुण रूपतेत्यप्यसाम्प्रतम् ; दोषाभावस्य प्रतियोगिपैदार्थवभाव१०त्वात् । निःस्वभावत्वे कार्यत्वधर्माधारत्वविरोधात् खरविषाणवत् । तथाविधस्याप्रतीतेरनभ्युपगमाञ्चे, अन्यथा "भावान्तरविनिमुक्तो भावोऽत्रानुपलम्भवत् । अभावः समस्त (सम्मतस्त)स्य हेतोः किन्न समुद्भवः॥"[] १ प्रामाण्यं धर्मि चक्षुरादिव्यतिरिक्तपदार्थकारणकं भवति चक्षुरादिव्यतिरिक्तपदार्थभावाभावानुविधायित्वात् । २ कारणस्य । ३ यथार्थोपलब्धिलक्षणविशिष्टकार्यत्वादि. त्यस्य । ४ अविनाभावः । ५ गुणसद्भावे प्रामाण्यस्य सद्भावस्तदभावे प्रामाण्यस्याभाव इति । ६ परेण । ७ इन्द्रियगुणलिङ्गस्य । ८ दोषपक्षेपि दोषैस्सह लिङ्गस्य सम्बन्धः प्रत्यक्षेण गृह्यतेऽनुमानेन वेत्यादिदोषस्य । ९ भावान्तरस्वभावत्वादभावस्य । १० यद् (गुण) निरूपणाधीनं निरूपणं यस्य (दोषस्य) तत्तत्प्रतियोगि। ११ गुण । १२ अभावस्य । १३ अञ्जनादिना क्रियमाणत्वलक्षणकार्यत्व (नैर्मल्यादि)। .१४ निस्वभावाभावस्य । १५ त्वया परेण । १६ अभ्युपगमे । १७ गुणाद्दोषलक्षणं कपालक्षणादन्यो घटो वा। १८ गुणः कपालं वा। १९ मीमांसकमते। २० एकस्माद्भूतलोपलम्भलक्षणाद्भावादपरो घटोपलम्भलक्षणो भावो भावान्तरं तेन विनिर्मुक्तो भावो भूतलोपलम्भलक्षणः स एव घटस्यानुपलम्भो यथा । २१ लिङ्गस्य । 1 "तथाहि-अतीन्द्रियलोचनाद्याश्रिता दोषाः किं प्रत्यक्षेण प्रतीयन्ते, उत अनु. मानेन ? न तावत् प्रत्यक्षेण; इन्द्रियादीनामतीन्द्रियत्वेन तद्गतदोषाणामप्यतीन्द्रियत्वेन तेषु प्रत्यक्षस्याप्रवृत्तेः । नाप्यनुमानेन; अनुमानस्य गृहीतप्रतिबन्धलिङ्गप्रभवत्वाभ्युमगमात् । लिङ्गप्रतिबन्धग्राहकस्य च प्रत्यक्षस्यानुमानस्य चात्र विषयेऽसम्भवाद। प्रमाणान्तरस्य चात्रानन्तर्भूतस्यासवेन प्रतिपादयिष्यमाणत्वात् इत्यादि सर्वमप्रामाण्यो. 'त्पत्तिकारणभूतेषु लोचनाद्याश्रितेषु दोषेष्वपि समानमिति ।” सन्मति० टी० पृ० १ । 2 "पदार्थान्तरेण विनिर्मुक्तः त्यक्तः भिन्न इति यावत् , इत्थम्भूतो भाव एवाभावः न पुनर्भावादतिरिच्यते इत्यर्थः । तत्र दृष्टान्तोऽनुपलम्भः, यथा घटानुपलम्भो घटातिरिक्तस्य पटादेरुपलम्मे पर्यवस्यति, तथा दोषा[ऽभावो]भावान्तरे पर्यवसायी वाच्य इत्याशय इति" गु० टि.। सन्मति० टी० टि० पृ० १०।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy