________________
सू० १११३] प्रामाण्यवादः
१६१ इत्यस्य विरोधः।
तथा च गुणदोषाणां परस्परपरिहारेणावस्थानाद्दोषोभावे गुणसद्भावोऽवश्याभ्युपगन्तव्योऽत्यावे शीतसद्भाववत्, अभावाभावे भासद्भावबद्धा ! अन्यथा कथं हेतौ नियमाभावो दोषः स्यात् अभावस्य गुणरूपतावदोषरूपत्वस्याप्ययोगात् ? तथाच-५ नर्सल्यादिव्यतिरिक्तगुणरहिताचक्षुरादेरुपजायमानप्रामाण्यवन्नियमविरहव्यतिरिक्तदोपरहिताद्धेतोरप्रामाण्यमप्युपजायमानं स्वतो विशेषाभावात् । तथा च
"अप्रामाण्यं त्रिधा भिन्नं मिथ्यात्वाज्ञानसंशयैः। वस्तुत्वादिविधेस्यात्र सम्भवो दुटकारणात् ॥" १०
[मी० श्लो० सू० २ श्लो० ५४] इत्यस्य विरोधः। ततो हेतोनियमविरहस्य दोषरूपत्वे चेन्द्रिये मलापगमस्य गुणरूपतास्तु । तथाच सूक्तमिदम्
"तस्माद्गुणेभ्यो दोषाणामभावस्तदभावतः। अंग्रामाण्यद्वयासत्त्वं तेनोत्सर्गोऽनेपोदितः॥"
[मी० श्लो० सू० २ श्लो० ६५] इति । 'गुणेभ्यो हि दोषाणामभावः' इत्यभिधता 'गुणेभ्यो गुंणा' एवाभिहितास्तथा प्रामाण्यमेवाप्रामाण्यद्वयासत्त्वम्, तस्य गुणेभ्यो भावे कथं न परतः प्रामाण्यम् ? कथं वा तस्यौ
१ निस्स्वभावत्वाभावे । २ घटस्य । ३ कपालस्य । ४ घटस्य । ५ नैव । ६ साधने। ७ अविनाभावाभावः। ८ स्वतः । ९ भावान्तररहितकारणमात्रजन्यत्वस्य । १० विपर्यय । ११ ज्ञानाभावः स्वप्नावस्थायाम् । १२ अज्ञानस्य शानभावरूपतया स्वतःसिद्धत्वान्न तत्र काचिदपेक्षा । १३ भावरूपत्वात् । १४ संशयविपर्ययरूपस्य । १५ त्रिषु मध्ये । १६ काचकामलादिदोषदूषिताच्चक्षुषः। १७ ग्रन्थस्य । १८ अनुमानस्य प्रामाण्ये गुणानां व्यापारो न दृष्टो यतः। १९ संशयविपर्यय । २० कारणेन । २१ प्रामाण्यम् । २२ अबाधित आस्ते । २३ परेण । २४ गुणाभावरूपत्वाद्दोषाणां दोषाभाव एव च गुणः। २५ यथा गुणेभ्यो दोषाणामभावः । २६ किञ्च।
1"दोषाभावो हि पर्युदासवृत्त्या गुणात्मक एव भवेत् , ततश्च तत्परिज्ञानमपि गुणज्ञानात्मकं प्राप्नोति ।" तत्त्वसं० पं० पृ० ७९९ । न्यायकुमु० पृ० १९८ । सन्मति. टी० पृ० १०। स्या० रत्ना० पृ० २४८ ।