________________
सू० १११३] प्रामाण्यवादः
१५५ घटनात् । चक्रकप्रसङ्गश्च । कथं चार्थक्रियाज्ञानस्य तैनिश्चयः ? अन्यार्थक्रियाज्ञानाच्चेदनवस्था । प्रथमप्रमाणाच्चेदन्योन्याश्रयः । अर्थक्रियाज्ञानस्य स्वतःप्रामाण्य निश्चयोपैगमे चौद्यस्य तथाभावे किकृतः प्रद्वेषः? तदुक्तम्
"यथैव प्रथमज्ञानं तत्संवादमपेक्षते। संवादेनापि संवादः परो मृग्यस्तथैव हि ॥ १॥[ ] कस्यचित् यदीप्येत स्वत एव प्रमाणता। ग्रंथमस्य तथाभावे प्रद्वेषः केन हेतुना ॥२॥
[मी० श्लो० सू० २ श्लो० ७६] संवादस्याथ पूर्वेण संवादित्वात्प्रमाणता। अन्योन्याश्रयमावेन प्रामाण्यं न प्रकल्पते ॥३॥[ ] इति। अर्थक्रियाज्ञानस्यार्थाभावेऽदृष्टत्वान्न स्वप्रामाण्यनिश्चयेऽन्यापेक्षा साधनज्ञानस्य त्वर्थाभावेपि दृष्टत्वात्तत्र तदपेक्षा युक्ता; इत्यप्यसङ्गतम् तस्याप्यर्थमन्तरेण स्वप्नदशायां दर्शनात् । फलावाप्तिरूपत्वात्तस्य तंत्र नान्यापेक्षा सौधननिर्भासिज्ञानस्य तु फलावाप्ति-१५ रूपत्वाभावात्तैदपेक्षा; इत्यप्यनुत्तरम् फलावाप्तिरूपत्वस्याप्रयोज. कत्वात् । यथैव हि सौधननिर्भासिनो ज्ञानस्यान्यत्र व्यभिचारदर्शनात्सत्यासत्यविचारणायां प्रेक्षावतां प्रवृत्तिस्तथा तस्यापि विशेपा(वात्।
किञ्च, समानकालमर्थक्रियाज्ञानं पूर्वज्ञानप्रामाण्यव्यवस्थाप-२० कम् , भिन्नकालं वा ? यद्येककालम् ; पूर्वज्ञानविपयम् , तद्विपयं
१०
१ अर्थक्रियाशानोत्पत्तौ पूर्वशानस्य प्रामाण्यं पूर्वज्ञानप्रामाण्ये च प्रवृत्तिः प्रवृत्ती चार्थक्रियाज्ञानोत्पत्तिरिति । २ किञ्च । ३ प्रामाण्य । ४ जैनैः। ५ ज्ञानस्य । ६ स्वविषये। ७ स्वविषये। ८ द्वितीयशानस्य । ९ शानस्य । १० आयशानेन । ११ न घटते । १२ जैनः। १३ अप्रतीतेः। १४ जलशानस्य । १५ जललक्षण । १६ मरीचिकाचके। १७ साधनशानप्रामाण्ये । १८ स्लानपानादिलक्षण । १९ स्वप्रामाण्यनिश्चये । २० प्रथमतृतीयज्ञान । २१ स्नानादिक्रियायाः साधनं जलादि तस्मिन् । २२ युक्ता । २३ अन्यानपेक्षत्वं प्रति। २४ अर्थक्रियायाः। २५ जल । २६ मरीचिकायां । २७ जाग्रद्दशायां सुप्तावस्थायां च सत्यासत्यत्वस्य । २८ स्वप्नद. शायां व्यभिचारदर्शनस्य । २९ संवादकं । ३० बसः। ३१ बसः । ३२ बसः ।
-
1 "कारिकेयं तत्त्वसंग्रहे (पृ० ७५७) पूर्वपक्षरूपतया धृताऽस्ति ।