________________
प्रमेयकमलमार्तण्डे [प्रथमपरि० वा? । न तावत्तदविषयम् ; चक्षुरादिज्ञाने ज्ञानान्तरल्याप्रति भासनात्, प्रतिनियतरूपादिविषयत्वात्तस्य । तदविषयत्वे च कथं तज्ज्ञानप्रामाण्य निश्चायकत्वं तद्ग्रहे तद्धर्माणां ग्रहणविरो. धात् । मिन्चकालमित्यप्ययुक्तम् पूर्वज्ञानस्य क्षणिकत्वेन नाशे ५ तदाहकत्वेनोत्तरज्ञानस्य तत्प्रामाण्यनिश्चायकत्वायोगात् ।
सर्वप्राणभृतां प्रामाण्ये संन्देहविपर्ययाक्रान्तत्वासिद्धेश्च । सम. त्पन्ने खलु विज्ञाने 'अयमित्थमेवार्थः' इति निश्चयो न सन्देहों विपर्ययो वा । तदुक्तम्
"प्रेमाणं ग्रहणात्पूर्व स्वरूपेणैव संस्थितम् ।। १० निरपेक्षं स्वकार्ये च गृह्यते प्रत्ययान्तरैः, ॥१॥"
[मी० श्लो० सू०२ श्लो० ८३] इति प्रमाणाप्रमाणयोरुत्पत्तौ तुल्यरूपत्वान्न संवादविसंवादावन्तरेण तयोः प्रामाण्याप्रामाण्यनिश्चय इति च मनोरथमात्रम् ; अप्रमाणे वाधककारणदोषज्ञानयोरवश्यंभावित्वादप्रामाण्यनिश्चयः, १५प्रमाणे तु तयोरभावात्प्रामाण्यावसायः।
१ स्पर्शनरसनवाणश्रोत्र । २ द्वितीये ज्ञाने। ३ आवस्य जलशानस्य । ४ रसगन्धस्पर्शशब्द। ५ बसः। ६ बाह्येन्द्रियजनितज्ञानस्य । ७ प्रामाण्यसत्त्वा. दीनाम् । ८ यदा ज्ञानमुत्पद्यते तदा संशयादिरहितमेवोत्पद्यतेऽतः कथमपरापेक्षा। ९ किञ्च । १० भवति । ११ प्रामाण्यं । १२ प्रामाण्यलक्षणस्य धर्मस्पात्रान्तर्भावाद्धर्मिप्रधानोऽयं निर्देशः। १३ परिच्छित्तः। १४ अर्थपरिच्छित्तिप्रवृत्तिलक्षणे। १५ पुरुषैः। १६ संवादरूपैः। १७ सन्निकर्षरूपैः। १८ परतः। १९ निश्चयः। २० भवति ।
1"अर्थान्यथात्वहेतूत्थदोषज्ञानादपोद्यते ॥ ५३॥
"दोषनिमित्तं हि ज्ञानस्यायथार्थत्वम् , दोषान्वयव्यतिरेकानुविधानात् । अतो दुष्टकारणजन्येन ज्ञानेन आत्मनः प्रामाण्यं विषयस्यार्थस्यातथाभूतस्यापि तथात्वमवगतमपि अर्थान्यथात्वज्ञानेन दोषज्ञानेन वाऽपोद्यते ।" मी० लो० न्यायरत्ना० पृ० ६२।
"एवमेव स्वतः सर्वज्ञानानां प्रामाण्यम् ; अप्रामाण्यं तु परत एवेत्याश्रित्य प्रत्यवर स्थयम्; तथाहि-विज्ञानं जायमानं यथाभूतमर्थमवभासयति तथाभूत एवार्थ इति निश्चाययत्येव न तु निश्चये ज्ञानान्तरमपेक्षणीयम् , तेन स्वत एव प्रामाण्यम्। अप्रामाण्यं तु अर्थस्यातथाभावनिश्चयनिरपेक्षं सन्नावगमयितुमलमिति परतोऽप्रामा. ग्यम् । अपि च प्रमाणाप्रमाणसाधारणत्वे निश्चयस्य निश्चयानुसारेण पश्चादाशंकोपजायते; सा परत एवेति परत एवाप्रामाण्यम् । न चापि सर्वत्राशंका, किन्तु यादृशे व्यभिचारदर्शनं तादृश एव शंकेति । नच सर्वावस्थे ज्ञाने व्यभिचारदर्शन मिति सर्वत्राशंका; सर्वत्रैवाशंकायां परतोऽपि प्रामाण्यं न स्यात् , तस्यापि शंकास्पदत्वादिति ।"
मीमांसाभाष्यपरि० पृ० ८।