SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ १५४ प्रमेयकालमार्तण्डे [प्रथमपरि० चक्षुरादिविज्ञानकारणादुपजायमानत्वात्तस्य परतोऽभिधाने त सिद्धसाध्यता। अनुमानादिवुद्धिस्तु गृहीताविनाभावादिलिङ्गादे रुपजायमाना प्रमाणभूतैवोपजायतेऽतोऽत्रापि तेषां न व्यापारः। तन्नोत्पत्तौ तदन्यापेक्षम्। ५ नापि शप्तौ, तँद्धि तत्र किं कारणगुणानपेक्षते, संवादप्रत्ययं वा? प्रथमपक्षोऽयुक्तः, गुणानां प्रत्यक्षादिप्रमाणाविषयत्वेन प्रागेवासत्त्वप्रतिपादनात् । संवादज्ञानापेक्षाप्ययुक्ता; तत्खलु समानजातीयम् , भिन्नजातीयं वा ? प्रथमपक्षे किमेकसन्तानप्रेभवम् । भिन्नसन्तानप्रभवं वा? न तावद्भिन्नसन्तानप्रभवम् ; देवदत्तघ१० टज्ञाने यज्ञदत्तघटज्ञानस्यापि संवादकत्वसङ्गात् । एकसन्तानप्रभवमप्यभिन्न विषयम्', भिन्न विषयं वा? प्रथमविकल्पे संवा. घसंवादकभावाभावोऽविशेषात् । अभिन्नविपयत्वे हि यथोत्तरं पूर्वस्य संवादकं तथेमप्यस्य किन्न स्यात् ? कथं चार प्रमाणत्वनिश्चयः? तदुत्तरकालभाविनोऽन्यस्मात् तथाविधादेवेति १५ चेत्, तर्हि तस्याप्यन्यस्मात्तथाविधादेवेत्यनवस्था । प्रथमप्र माणात्तस्य प्रामाण्य निश्चयेऽन्योन्याश्रयः । भिन्नविषयमित्यपि वार्त्तम् । शुक्तिशकले रजतज्ञानं प्रति उत्तरकालभाविशुक्तिका शकलज्ञानस्य प्रामाण्यव्यवस्थापकत्वप्रसङ्गात् । नापि भिन्नजातीयम्; तद्धि किमर्थक्रियाज्ञानम् , उतान्यत् ? न २० तावदन्यत् ; धैटज्ञानात्पटज्ञाने प्रामाण्यनिश्चयप्रसङ्गात् । नाप्यर्थक्रियाज्ञानम् ; प्रामाण्यनिश्चयाभावे प्रवृत्त्याभावेनार्थक्रियाज्ञाना १ प्रामाण्यस्य । २ आगम। ३ सङ्केतादि । ४ शब्द। ५ गुणानां । ६ प्रामाण्यं । ७ गुण। ८ प्रामाण्यं । ९ प्रामाण्यस्य । १० अर्थज्ञानेन समाना सदृशा जातिवि(वि)षयो यस्य तत्समानजातीयम् । ११ पुरुष। १२ अन्यथा । १३ भिन्नसन्तानप्रभवत्वाविशेषात् । १४ एकस्य जलज्ञानं जलशानमिति । १५ अभिनविषयस्य । १६ संवादकं । १७ किञ्च । १८ उत्तरशानस्य । १९ द्वितीयज्ञानात् । २० शानात्। २१ अभिन्नविषयात्। २२ प्रथमप्रमाणादुत्तरस्य निश्चयः उत्तरशानात्प्रथमनिश्चय इति । २३ ज्ञानात् । २४ पूर्वशातं । २५ सदृशविषयत्वेन समानजातीयत्वे सति भिन्नविषयत्वस्याविशेषात् । २६ संवादशानं। २७ द्वितीयविकल्पं प्रत्याह परः। २८ लानावगाहनादि । २९ ता। ३० मरीचिकाचक्रे जलज्ञानात्पश्चान्मरीचिकाशनम् । ३१ अन्यथा । ३२ आवशानस्य । पेक्षतां नाम स्वकार्ये तु विषयनिश्चये अनपेक्षमेव ।" मी० श्लो० न्यायरत्ना० पृ०६०। कारिकेयं तत्त्वसंग्रहे (पृ० ७५७) पूर्वपक्षरूपेण वर्तते ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy