________________
१५३
सू० १११३] प्रामाण्यवादः रादिसामग्रीतो विज्ञानोत्पत्तावप्यनुत्पत्युपगमे विज्ञानस्य खरूपं वक्तव्यम् । न च तद्रूपव्यतिरेकेण तस्य खरूपं पश्यामो येन तेंदुत्पत्तावप्यनुत्पन्नमुत्तरकालं तत्रैवोत्पत्तिमभ्युपगम्यते प्रामाण्य भित्ताविव चित्रम् । विज्ञानोत्पत्तावप्यनुत्पत्तौ व्यतिरिक्तसामग्रीतश्चोत्पत्त्याभ्युपगमे विरुद्धधर्माध्यासात्कारणभेदाच्च५ तयोमदः स्यात् ।
किच, अर्थतथात्वपरिच्छेदरूपा शक्तिः प्रामाण्यम् , शक्तयश्च भावानां सत(स्वत) एवोत्पद्यन्ते नोत्पादककारणाधीनाः । तदुक्तम्
"स्वतः सर्वप्रमाणानां प्रामाण्यमिति गम्यताम् । १० न हि स्वतोऽसती शक्तिः कर्तुमैन्येन पार्यते ॥"
. [मी० श्लो० सू०२ श्लो० ४७] न चैतत्सत्कार्यदर्शनसमाश्रयणाद्भिधीयते; किन्तु यः कार्यगतो धर्मः कारणे समस्ति स कार्यवेत्तत एवोदयमासादयति यथा मृत्पिण्डे विद्यमाना रूपादयो घटेपि मृत्पिण्डादुपजायमाने १५ मृत्पिण्डरूपादिद्वारेणोपजायन्ते । ये तु कार्यधर्माः कारणेवविद्यमाना न ते ततः कार्यवत् जायन्ते किन्तु स्वत एव, यथा तेस्यैवोदकाहरणशक्तिः । एवं विज्ञानेप्यर्थतथात्वपरिच्छेदशक्तिश्चक्षुरादिष्वविद्यमाना तेभ्यो नोदयमासादयति किन्तु स्वत एवाविर्भवति । उक्तं च
"आत्मलाभे हि भीवानां कारणापेक्षिता भवेत् । लब्धात्मनां स्वकार्येषु प्रवृत्तिः खयमेव तु ॥"
मी० श्लो० सू० २ श्लो०४८] यथा-मृत्पिण्डदण्डचक्रादि घटो जन्मन्यपेक्षते । ___ उदकाहरणे त्वस्य तदपेक्षा न विद्यते" ॥[ ] २५
२०
१ प्रामाण्यस्य । २ जैनैः। ३ वयं मीमांसकाः। ४ विज्ञानस्य । ५ विज्ञाने । ६ भित्तिसद्भावे चित्रं नोत्पद्यते विनष्टे तु भवतीति । ७ प्रामाण्यस्य । ८ प्रामाण्यस्य । ९ विज्ञानस्य कारणमिन्द्रियं प्रामाण्यस्य गुण इति । १० उत्पत्त्यनुत्पत्तिलक्षण । ११ इन्द्रियगुणो। १२ प्रमाणप्रामाण्ययोः। १३ प्रमाणप्रामाण्ये भिन्ने । १४ इति परस्यानिष्टापत्तिः परेणामेदाभ्युपगमात् । १५ प्रमाणस्य भावशक्तिः। १६ विज्ञानकारणातिरिक्तकारणाधीनो गुणः। १७ भवति। १८ निश्चीयताम् । १९ कारणे । २० स्वरूपेण। २१ विज्ञानकारणातिरिक्तकारणाधीनेन गुणेन । २२ अपरार्द्धस्थम् । २३ साङ्ख्यमत। २४ कारणधर्मादेव। २५ घटलक्षणकार्यस्य । २६ कार्याणां ।
1 "सर्वे हि भावाः स्वात्मलाभायैव करणमपेक्षन्ते । घटो हि मृत्पिण्डादिकं स्वजन्मन्येव अपेक्षते, नोदकाहरणेऽपि । तथा ज्ञानमपि स्वोत्पत्तौ गुणवदितरदा करणम