SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ १५२ प्रमेयकमलमार्तण्डे प्रथमपरि० योन कस्यचिल्लिङ्गस्याप्यध्यक्षता प्रतिपत्तिः स्यात् । अनुपलब्धेस्त्वेवंविधे विषये प्रवृत्तिरेव न सम्भवत्यभावमात्रसाधकत्वेनास्याः व्यापारोपगमात् । न चौत्र लिङ्गमस्ति । यथार्थोपलब्धिरस्तीत्यप्यसङ्गतम् ; यतो ५यथार्थत्वायथार्थत्वे विहाय यदि कार्यस्योलंब्ध्याख्यस्य स्वरूपं निश्चितं भवेत्तदा यथार्थत्वलक्षणः कार्यविशेषः पूर्वस्मात्कारणकलापादनिष्पद्यमानो गुणाख्यं स्वोत्पत्तौ कारणान्तरं परिकल्पयेत् । यदा तु यथार्थैवोपलब्धिः खयो(स्वो)त्पादकैकारणकलापा नुमापिका तदा कथं तद्व्यतिरिक्तगुणसद्भावः? अयथार्थत्वं तूपल१०ब्धेर्विशेषः पूर्वस्मात्कारणसमूहादनुत्पद्यमानः स्वोत्पत्तौ सामग्र्य न्तरं परिकल्पयतीति परतोऽप्रामाण्यं तस्योत्पत्तौ दोपापेक्षत्वात् । __ न चेन्द्रिये नैर्मल्यादिरेव गुणः, नैर्मल्यं हि तत्स्वरूपम् , न तु स्वरूपाधिको गुणः तथा व्यपदेशस्तु दोषाभावनिवन्धनः । तथाहि-कामलादिदोषासत्त्वान्निर्मलमिन्द्रियं तत्सत्त्वे सदोषम् । १५ मनसोपि निद्राद्यभावः स्वरूपं तत्सद्भावस्तु दोषः । विषयस्यापि निश्चलत्वादिखरूपं चलत्वादिस्तु दोषः। प्रमातुरपि क्षुधाद्यभावः खरूपं तत्सद्भावस्तु दोषः। न चैतेद्वक्तव्यम्-'विज्ञानजनकानां स्वरूपमयथार्थोपलब्ध्या समधिगतम् यथार्थत्वं तु पूर्वमात्कारणकलापादनुत्पद्यमानं २० गुणाख्यं सामयन्तरं परिकल्पयति' इति; यतोऽत्र लोकः प्रमा णम् । न चात्र मिथ्याज्ञानात्कारणस्वरूपमात्रमेवानुमिनोति किन्तु सैम्यग्ज्ञानात्। किञ्च, अर्थतथाभावप्रकाशनरूपं प्रामाण्यम्, तस्य चक्षु. १ प्रामाण्यस्य । २ सम्बन्ध । ३ ता। ४ किञ्च । ५ नयनगुणे साध्ये। ६ नयने गुणाः सन्ति यथार्थोपलब्धेः। ७ विशेषरूपे। ८ कार्यमात्रस्य । ९ उपलम्भसामान्यस्य । १० सत्य । ११ कर्ता । १२ शुद्धं चक्षुः । १३ अन्यत् । १४ इन्द्रिय। १५ इन्द्रिय । १६ इन्द्रिय । १७ का। १८ निर्मलं चक्षुरिति । १९ इन्द्रियस्वरूपम् । २० पटादिपदार्थस्य । २१ आसन्नत्वादि । २२ वक्ष्यमाणम् । २३ जैनैः। २४ चक्षुरादीनां । २५ लिङ्गेन। २६ अयथार्थोपलब्धिजनकादि. न्द्रियात् । २७ विज्ञानसामग्यनुमाने। २८ चक्षुरादि। २९ प्रामाण्यं विशानकारण (चक्षुरादि ) प्रभवं विज्ञानस्वभावत्वात् विशानस्वरूपवत् । ३० प्रमाणस्य कार्याधतथाभावप्रकाशनरूपं प्रामाण्यम् । 1 "वैमल्यं गुण इति चेत् ; नन्वेवं दोषाभावो गुणः।" मी. वो० न्यायरत्ना० पृ० ५९ ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy