SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ सू० १११३] प्रामाण्यवादः १५१ ज्ञप्तावप्यनभ्यासदशायां न प्रामाण्यं स्वतोऽवतिष्ठते; सन्देहविपर्ययाक्रान्तत्वात्तद्वदेव । अभ्यासदशायां तूभयमपि स्वतः। नापि प्रवृत्तिलक्षणे स्वकार्य तत्वतोऽवतिष्ठते, स्वग्रहणसापेक्षत्वादप्रामाण्यवदेव ! तद्धि हातं सनिवृत्तिलक्षणखकार्यकारि नान्यथा। नेलु गुणविशेषणविशिष्टेभ्यः इत्यु(त्ययु)क्तम् तेषां प्रमाणतोऽनुपललेनासत्त्वात् । न खलु प्रत्यक्ष तान्प्रत्येतुं समर्थम् ; अतीन्द्रियेन्द्रियाप्रतिपत्तौ तहुणानां प्रतीतिविरोधात् । नाप्यनुमानम् । तस्य प्रतिवन्धवलेनोत्पत्त्यभ्युपगमात् । प्रतिवन्धश्चेन्द्रियगुणैः सह लिङ्गस्य प्रत्यक्षेण गृह्येत, अनुमानेन वा । न तावत्प्रत्यक्षेण, १० गुणाग्रहणे तत्सम्वन्धग्रहणविरोधात् । नाप्यनुमानेन, अस्यापि गृहीतसम्वन्धलिङ्गप्रभवत्वात् । तत्राप्यनुमानान्तरेण सम्बन्धग्रहणेऽनवस्था प्रथमानुमानेनान्योन्याश्रयः । अप्रतिपन्नसम्वन्धप्रभवं चानुमानं न प्रेमाणमतिप्रसङ्गात् । किञ्च, स्वभावहेतोः, कार्यात्, अनुपलब्धेर्वा तत्प्रभवेत् ? न१५ तावत्वांवात् , तस्य प्रत्यक्षगृहीतेथे व्यवहारमात्रप्रवर्तनफलत्वादृक्षादौ शिंशपात्यादिवत् । न चात्यक्षाऽक्षाश्रितगुणलिङ्गसम्वन्धः प्रत्यक्षतः प्रतिपन्नः । कार्यहेतोश्च सिद्ध कार्यकारणभावे कारणप्रतिपत्तिहेतुत्वम् , तत्सिद्धिश्चाध्यक्षानुपलम्भप्रमाणसम्पाद्या। नचेन्द्रियगुणाश्रितसम्बन्धग्राहकत्वेनाध्यक्षप्रवृत्तिः, येन तत्का-२० १ सत्यमसत्यमिति। २ प्रामाण्यमप्रामाण्यम् । ३ अभ्यासदशायां विषयं प्रति गमनम् । ४ सत्यत्व । ५ स्वस्य ज्ञानेन । ६ प्रामाण्यस्य । ७ अर्थव्यभिचारित्व । ८ असत्यमिदमिति । ९ विषयं प्रत्यगमनम् । १० अशातम् । ११ अभ्यासदशायां खतः। १२ मीमांसकः। १३ चक्षुरादिभ्यः। १४ अपरिझाने। १५ प्रामाण्यं विज्ञानकारणातिरिक्तकारणप्रभवं विज्ञानान्यत्वे सति कार्यत्वादप्रामाण्यवत् । १६ अविनाभाव । १७ प्रामाण्यस्य । १८ लिङ्गस्य । १९ प्रामाण्यं गुणनियतं तदन्वयव्यति. रेकानुविधायित्वात् । २० द्वितीयानुमाने। २१ तदन्वयव्यतिरेकानुविधायित्वं गुणसद्भावाविनाभावि तस्मि(गुणे )न्सत्येवोत्पद्यमानत्वात् । २२ अगृहीत । २३ अनुमानाभासम् । २४ तत्पुत्रत्वादेरुत्पन्नस्य प्रामाण्यप्रसङ्गात् । २५ वृक्षोयं शिंशपात्वात्। २६ हेतोः । २७ वृक्षोयं शिंशपात्वात्। २८ ता। २९ प्रामाण्यं (कार्य) साध्येन (गुणेन) सम्बन्धि अनुमानकार्यत्वाद्धूमवत् । ३० हेतुः कार्यम् । ३१ सम्बन्धः कारणम् । ३२ अन्वयव्यतिरेकाभ्याम् । ३३ असत्यसद्भाव । ३४ कार्यकारणभाव । ३५ ता। 1 "नहि चक्षुरादिषु गुणा नाम केचिदुपलभ्यन्ते ।" मी० लो० न्यायरसा. ५० ५९ । -
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy