SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ १५० प्रमेयकमलमार्तण्डै प्रथमपरि० ये तु सकलप्रमाणानां स्वतः प्रामाण्यं मन्यन्ते तेऽत्र प्रष्टव्याःकिमुत्पत्तो, ज्ञप्तौ, स्वकार्ये वा खतः सर्वप्रमाणानां प्रामाण्यं प्रायते प्रकारान्तरासम्भवात् ? यद्युत्पत्ती, तत्रापि स्वतः प्रामाण्यनुत्पद्यते' इति कोर्थः ? किं कारणमन्तरेणोत्पद्यते, वसा५मग्रीतो वा, विज्ञानमात्रसामग्रीतो वा गत्यन्तराभावात् । प्रथमपक्षे-देशकालनियमेन प्रतिनियतप्रमाणाधारतया प्रामाण्यप्रवृत्तिविरोधः खतो जायमानस्यैवंरूपत्वात् , अन्य तंद्योगात् । द्वितीयपक्षे तु सिद्धसाध्यता, स्वसामग्रीतः सकलमावानामुत्पत्त्य भ्युपगमात् । तृतीयपक्षोप्यविचारितरमणीयः, विशिष्टंकार्यस्या१० विशिष्टकारणप्रभवत्वायोगात् । तथा हि-प्रामाण्यं विशिष्टकारण प्रभवं विशिष्टकार्यत्वादप्रामाण्यवत् । यथैव ह्यप्रामाण्यलक्षणं विशिष्टं कार्य काचकामलादिदोषलक्षणविशिष्टेभ्यश्चक्षुरादिभ्यो जायते तथा प्रामाण्यमपि गुणविशेषणविशिष्टेभ्यो विशेषाभावात्। १ भाडाः । २ समयेंत। ३ आत्मवाचक आत्मीयवाचकश्च । ४ आत्मवाचकपक्षे। ५ आत्मीयवाचकपक्षे। ६ आत्मीयपक्षे। ७ घटादि। ८ तदविरोधे । ९ कारणमन्तरेण प्रवृत्तेरयोगात् । १० प्रामाण्यस्य । ११ शानेन व्यभिचारः। १२ प्रामाण्यं न विशानसामग्रीजन्यं विज्ञानान्यत्वे सति कार्यत्वात् । प्रामाण्यविज्ञाने भिन्नसामग्रीजन्ये भिन्नकार्यत्वाद् घटपटादिवत् । १३ विशिष्टकार्यत्वस्य । तच्च स्याद्वादिनामेव स्वार्थनिश्चयनात स्थितम् । नतु स्वनिश्चयोन्मुक्तनिःशेषज्ञानवादिनाम् ॥” तत्त्वार्थश्लो० पृ० १७७ । "इति स्थितमेतत्-प्रमाणादिष्टसंसिद्धिः अन्यथाऽतिप्रसङ्गतः । प्रामाण्यं तु स्वतः सिद्धमभ्यासात्परतोऽन्यथा ॥" प्रमाणप० पृ० ६३ । "आभ्यासिकं यथा ज्ञानं प्रमाणं गम्यते स्वतः । मिथ्याज्ञान तथा किञ्चिदप्रमाणं खतः स्थितम् ॥" तत्वसं० कारि० ३१००। "नहि बौद्धैः एषां चतुर्णामेकतमोऽपि पक्षोऽमीष्टः, अनियमपक्षस्येष्टत्वात् । तथाहि-उभयमप्येतत् किञ्चित् स्वतः किंचित् परत इति......" तत्त्वसं० पं० पृ० ८११ । 1 "तल्कि स्वतो ज्ञायते, स्वतो वा जायते, स्वतो वा व्याप्रियते ?" प्रश० कन्दली पृ० २१८ । 2 "तत्रापि स्वतः कारणमन्तरेण आत्मनैव प्रामाण्यमुत्पद्यते इत्यर्थः स्यात् । आत्मनो वा सकाशात् , आत्मीयायाः सामग्रीतो वा ?" न्यायकुमु० पृ० १९९ । 3 "प्रमा ज्ञानहेत्वतिरिक्तहेत्वधीना कार्यत्वे सति तद्विशेषत्वात् अप्रमावत् ।" प्रश० किरणा० पृ. ३१८ ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy