________________
सू० ११११-१३] प्रामाण्यवादः
१४९ कार्यानुमेयत्वात्तयोः । सकलभावानां सामर्थ्यस्य कार्यानुमेयतया निखिलवादिभिरभ्युपगमात् । अग्दिशां चान्तर्बहिर्वार्थो नैकान्ततः प्रत्यक्ष इत्यत्राखिलवादिनाम विप्रतिपत्तिरेवेत्युक्तदोषानवकाशतया प्रमाणस्य प्रत्यक्षताप्रसिद्धरलं विवादेन । अ#मेवार्थ समर्थयमानः कोवेत्यादिना करणार्थमुपसंहरति ।।
को वा तत्प्रतिभासिनमर्थमध्यक्षमिच्छंस्तदेव तथा नेच्छेत् ॥ ११ ॥
प्रदीपवत् ॥ १२ ॥ को वा लो(लौ )किकः परीक्षको वा तत्प्रतिभासिनमर्थमंध्यक्षमिच्छंस्तदेव प्रमाणमेव तथा प्रत्यक्षप्रकारेण नेच्छेत् ! १० अपि तु प्रतीतिं प्रमाणयनिच्छेदेव । अत्रैवार्थे परीक्षकेतरजनप्रसिद्धत्वात् प्रदीपं दृष्टान्तीकरोति ? यथैव हि प्रदीपस्य स्वप्रकाशतां प्रत्यक्षतां वा विना तत्प्रतिभासिनोर्थस्य प्रकाशकता प्रत्यक्षता वा नोपपद्यते । तथा प्रमाणस्यापि प्रत्यक्षतामन्तरेण तत्प्रतिभासिनोर्थस्य प्रत्यक्षता न स्यादित्युक्तं प्रा प्रवन्धेनेत्युपरम्यते । १५ तदेवं सकलप्रमाणव्यक्तिव्यापि साकल्येनाप्रमाणव्यक्तिभ्यो व्यावृत्तं प्रमाणप्रसिद्धं वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणलक्षणम् ।
नक्तलक्षणप्रमाणस्य प्रामाण्यं खतः परतो वा स्यादित्याशङ्ख्य प्रतिविधत्ते। तत्प्रामाण्यं खतः परतश्च ॥ १३॥
२० तस्य स्वापूर्वार्थत्यादिलक्षणलक्षितप्रमाणस्य प्रामाण्यमुत्पत्तौ परत एव।ज्ञप्ती स्वकार्ये च खंतःपरतश्च अभ्यासानभ्यासापेक्षया।
१ स्वपरप्रकाशरूपयोः । २ किञ्चिज्ज्ञानाम् । ३ व्यक्तयपेक्षया प्रत्यक्षः शक्तयपेक्षया परोक्षः। ४ शानं स्वप्रकाशकमर्थप्रकाशकत्वात्। ५ स्वपरप्रकाशकसमर्थप्रकाशकत्वात्। ६ मीमांसकेन ज्ञानपरोक्षतारूपो योगेन खात्मनिक्रियाऽभावरूपश्च । ७ स्वसंविदित । ८ शान । ९ अध्यक्षविषयं । १० प्रदीपवत् । ११ प्रदीपप्रकारेण। १२ दूषणम् । १३ अस्मामिजैनैः। १४ प्रत्यक्षपरोक्ष । १५ अव्याप्त्या. दिपरिहारः। १६ सन्निकर्षादि । १७ अतिव्याप्तिपरिहारः। १८ असम्भवपरिहारः। १९ स्वापूर्वेत्यादि । २० अविसंवादित्वं । २१ जैनः। २२ अर्थाव्यभिचारित्वम् । २३ प्रवृत्त्यर्थपरिच्छित्तिलक्षणे ।
1
"तत्राभ्यासात्प्रमाणत्वं निश्चितं स्वत एव नः । मनभ्यासे तु परतः इत्याहुः केचिदासा ॥