SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ १४८ प्रमेयकमलमार्तण्डे [प्रथमपरि० ननु 'येनात्मना ज्ञानमात्मानं प्रकाशयति ऐन चार्थ तौ चेत्ततोऽभिन्नौ ताहि तोवेव न ज्ञानं तस्य तत्रानुप्रवेशात्तत्स्वरूपवत्, ज्ञानमेव वा तयोस्तत्रानुप्रवेशात्, तथा च कथं तस्य स्वपरप्रकाशनशक्तिद्वयात्मकत्वम् ? भिन्नौ चेत्स्वसंविदितौ, स्वाश्रय ५ज्ञानविदितौ वा । प्रथमपक्षे खसंविदितज्ञानेंत्रयप्रसङ्गस्तत्रापि प्रत्येकं स्वपरप्रकाशस्वभावद्वयात्मकत्वे स एव पर्यनुयोगोऽनवस्था च । द्वितीयपक्षेऽपि वपरप्रकाशहेतुभूतयोस्तयोर्यदि ज्ञानं तथाविधेन स्वभावद्वयेन प्रकाशकं तनिवस्था । तदप्रकाशकत्वे प्रमाणत्वायोगैस्तयोर्वा तत्स्वभावत्वविरोध इति' एकान्तादिना१० मुपलम्मो नास्माकम् , जात्यन्तरत्वात्स्वभावतद्वतोर्मेंदामेदं प्रत्य नेकान्तात् । ज्ञानात्मना हि स्वभावतद्वतोरभेदः, स्वपरप्रकाशै. स्वभावात्मना च भेदै इति ज्ञानमेवाभेदोऽतो भिन्नस्य ज्ञानात्मनोऽ. प्रतीतेः । स्वपरप्रकाशस्वभावे च भेदस्तयतिरिक्तयोस्तरप्रतीयमानत्वादित्युक्तदोषानवकाशः । कल्पितयोस्तु भेदाभेदैकान्त५योस्तषणप्रवृत्तौ सर्वत्र प्रवृत्तिप्रसङ्गात् न कस्यचिदिष्टतत्त्वव्यवस्था स्यात् । स्वपरप्रकाशस्वभावौ च प्रमाणस्य तत्प्रकाशनसामर्थ्यमेव, तद्रूपतया चांस्य परोक्षता तत्प्रकाशनलक्षण १ स्वभावेन । २ भवतः। ३ तौ। ४ शानात् । ५ द्वौ स्वभावौ ज्ञानं च। ६ प्रत्येकं स्वपरप्रकाशनस्वभावौ भिन्नावभिन्नौ वा । अभिन्नपक्षे प्रागुक्तमेव दूषणं भिन्नपक्षे स्वसंविदितौ स्वाप्रयज्ञानविदितो वेत्यादि । ७ भावयोः। ८ भिन्नेन । ९ स्वभावद्वयप्रकाशनात् । १० शानस्य । ११ ज्ञानस्य । १२ शान । १३ भा। १४ परेषां भवताम् । १५ जनानाम् । १६ प्रकारान्तरत्वात्। १७ कथञ्चिद् मेदामेदरूपत्वात्। १८ असत्प्रत्यक्षस्य । १९ अनियमात् । २० स्वरूपेण । २१ ईयेकः। २२ वा द्विः। २३ ज्ञानस्य । २४ ता। २५ ता। २६ इति । २७ ज्ञानरूपखभावरूपामेदायां । २८ स्वभावतद्वतोः। २९ स्वपरप्रकाशनस्वभावभेदाभेदपक्षयोः । ३० भवत्पक्षे मया योगेन । ३१ सुखात्मनोरभेदो ब्रह्माद्वैतवादिना कल्पितस्तत्राभेदे त्वया दूषणमुद्भाव्यते भेदप्रतिभासो न स्यादेकात्मनि सौगतेन भेदः कल्पितस्तत्र भेदे त्वया दूषणमुद्भाव्यते अनुसन्धानं न स्यादिति । तथापि भेदाभेदपक्षदूषणं स्यात् । कथं त्वया द्रव्यगुणयोर्भेदोऽभ्युपगतः आत्मन्यभेदस्त्वत्पक्षेपि परेणो. द्भाव्यमानं दूषणं प्रसज्येत। ३२ वस्तुनि । ३३ कारको न शापको झाप्यस्य । ३४ शानस्य। 1 "यच्चान्यदुक्तं येनैवात्मना ज्ञानमात्मानं प्रकाशयति वेनैवार्थम् इत्यादि। तदसमीक्षिताभिधानम् ; स्वभावतद्वतोः भेदाभेदं प्रत्यनेकान्तात् ।" न्यायकुमु० पृ० १८९ । स्या० रत्ना० पृ० २३२ । (तत्त्वार्थश्लो० पृ० १२५)
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy