________________
सू० ११०] ज्ञानान्तरवेद्यज्ञानवादः १४७ नसन्निधानेऽवश्यं सौधनादिना सन्निहितेन भवितव्यमसिद्धोदेरभावापत्तेः । सन्निहितेपि वा जिघृक्षिते धर्मिण्यहीते कथं विषयान्तरे ग्रहणाकांक्षा? कथं वा तज्ज्ञानमेकॉर्थसमवेतत्वेन
सन्निहितं विहाय तद्विपरीते दृष्टान्तादौ शानं ज्ञायेत् ? ___ अदृष्टात्तनिवृत्तौ स्वसंविदितज्ञानोत्पत्तिरेवातोऽस्तु किं मिथ्या-५ भिनिवेशेन ? तन्न प्रत्यक्षाद्धर्मिसिद्धिः।
लाप्यनुमानात्; तत्सद्भावावेदकस्य तस्यैवासिद्धेः । सिद्धौ वा तत्राप्याश्रयासियादिदोषोपनिपातः स्यात् । पुनरत्राप्यनुमानान्तरात्तत्सिद्धावनवस्था । इत्युक्तदोषपरिजिहीर्षया प्रदीपवत्स्वपरप्रकाशनशक्तिद्वयात्मकं ज्ञानमभ्युपगन्तव्यम् । तदपह्नवे १० वस्तुव्यवस्थाभावप्रसङ्गात्।
ननु स्वैपरप्रकाशो नाम यदि वोधरूपत्वं तदा साध्यविकलो दृष्टान्तः प्रदीपे वोधरूपत्वस्यासम्भवात् । अथ भासुररूपसम्वन्धित्वं तस्य ज्ञानेऽत्यन्तासम्भवात्कथं साध्यता ? अन्यथा प्रत्यक्षबाधस्तदप्यसमीचीनम् ; तत्प्रकाशो हि स्वपररूपोद्योतनरूपोऽ-१५ भ्युपगम्यते । स च कंचिद्वोधरूपतया कचित्तु भासुररूपतया वा न विरोधमध्यास्ते।
१ तृतीयज्ञानस्यैकात्मसमवेतत्वेन। २ दृष्टान्तादि । ३ अन्यथां । ४ आश्रय । ५ दृष्टान्त । ६ साधनादौ। ७ अर्थज्ञाने। ८ तृतीयेन द्वितीयस्याग्रहणे द्वितीयेन प्रथमस्याग्रहणे । ९ प्रतिपत्तुः। १० किञ्च । ११ धर्मिज्ञानतृतीयज्ञानं । १२ एकात्मनि। १३ तृतीयं चतुर्थ। १४ ज्ञानान्तरेणैव वेद्यं ज्ञानमिति । १५ द्वितीयविकल्पः । १६ ग्राहकस्य । १७ धर्मिशान। १८ ता। १९ हेतोरसिद्धिः। २० द्वितीयेऽनुमाने। २१ ईश्वरज्ञानेन सुखसंवेदनेन चानेकान्तः धर्म्यसिद्धिः। २२ परेण । २३ घटादिशान। २४ ज्ञानं स्वपरप्रकाशकमर्थप्रकाशकत्वाप्रदीपवत्। २५ प्रदीपे बोधरूपत्वे शाने भासुररूपसम्बन्धित्वे सति । २६ शाने भासुररूपसम्बन्धित्वं विद्यते चेत् । २७ प्रकटन । २८ जैनैः । २९ शाने ।
1 "नचादृष्टवशादनवस्थानिवृत्तिः, स्वसंविदितज्ञानाभ्युपगमेनापि अनवस्थानिवृत्तः संभवात् , अन्यथा कार्येऽनुपपद्यमाने अदृष्टपरिकल्पनाया उपपत्तेः । स्वसंवेदनेऽपि अदृष्टस्य शक्तिप्रक्षयाभावात् ।"
सन्मति० टी० पृ० ४७९ । 2 "यदि प्रकाशकत्वं बोधरूपत्वं विवक्षितं तदा साधनविकलमुदाहरणम् , प्रदीपे बोधरूपत्वस्यासंभवात् । अथ प्रकाशकत्वं भास्वररूपसम्बन्धित्वं तद् विज्ञाने नास्ति ।"
प्रश० व्यो० पृ० ५२९ । 3 "यतः अर्थप्रकाशकत्वमोद्योतकत्वमुच्यते, तच्च कचिद्बोधरूपतया क्वचिद्भासुररूपतया वा न विरोधमध्यास्ते।" न्यायकुमु० पृ० १८९ । स्या. रत्ना० पृ० २३१॥