SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ १४६ प्रमेयकमलमार्तण्डे [प्रथमपरि० नापि शेक्तिक्षयात् , ईश्वरात्, विषयान्तरसञ्चाराद् , अदृष्टाद्वाऽनवस्थाभावः। न हि शक्तिक्षयाच्चतुर्थादिज्ञानस्यानुत्पत्तेरनवः स्थानाभावः । तदनुत्पत्तौ प्राक्तनज्ञानासिद्धिदोषल्य तेवस्थ. त्वात् । तत्क्षये च कुतो रूपादिज्ञानं साधनादिज्ञानं वा यतो ५ व्यवहारः प्रवर्त्तत ? न च चतुर्थादिज्ञानजननशक्तेरेव क्षयो नेतरस्याः; युगपद्नेकशक्त्यभावात् । भावे वा तथैव ज्ञानोत्पत्तिप्रसङ्गः । नित्यस्योपरांपेक्षाप्यसम्भाव्या। क्रमेण शक्तिसद्भावे कुतोऽसौ ? न तावदात्मनोऽशक्तात्, तदसम्भवात् । शक्त्यन्तर कल्पने चानवस्था। १. ईश्वरस्तां निवारयतीत्यपि बालविलसितम्। कृतकृत्यस्य तन्नि वारणे प्रयोजनाभावात् । परोपकारः प्रयोजनमित्यसत्; धर्मिग्रहणाभावस्य तेंवस्थत्वप्रसङ्गात् , अप्रतीतेनिषिद्धत्वाच्चास्य । न चै विषयान्तरसञ्चारात्तन्निवृत्तिः, विषयान्तरसञ्चारो हि धर्मिज्ञानविषयादन्यत्र साधनादिविषये ज्ञानोत्पत्तिः। न च तज्ज्ञा. १ किञ्च । २ प्रतिपत्तुः। ३ पञ्चषष्ठादि । ४ प्रथमद्वितीयतृतीय। ५ पूर्व. निरूपित । ६ शक्ति । ७ दृष्टान्तादि। ८ कुतः। ९ रूपादिज्ञानजनितायाः शक्तेः । १० अपसिद्धान्तः। ११ आत्मनः। १२ ज्ञानोत्पत्तौ । १३ शक्ति । १४ शक्तिभवेत् । १५ असमर्थात् । १६ ता । १७ शक्तादात्मनश्चेन्न । १८ आत्मगताः शक्तयः शक्तिमत एवात्मनः उत्पद्यन्ते इत्यनेन प्रकारेण। १९ आद्यशानशानाभावस्य । २० पूर्वनिरूपित । २१ घटादिज्ञानशानमित्यादौ । २२ धर्मिशानज्ञानस्य। २३ तृतीयशानात् । २४ ता। २५ बसः। २६ आयज्ञानस्य । १७ तृतीयशानात् । २८ तृतीयज्ञानस्य । २९ द्वितीय। 1 "न च शक्तिप्रक्षयाच्चतुर्थज्ञानादेरनुत्पत्तेरनवस्थानिवृत्तिः, धर्मिग्रहणस्यैवमभावापत्तेः ।... किंच, यदि शक्तिप्रक्षयादनवस्थानिवृत्तिः, बाह्यविषयमपि ज्ञानं न भवेत् शक्तिप्रक्षयादेव ।" सन्मति० ब० पृ० ४७९ ॥ 2 "नच चतुर्थादिज्ञानजननशरेव प्रक्षयः न बाह्यविषयज्ञानशक्तः, युगपदनेकशक्त्यभावात् , भावे वा युगपदनेकज्ञानोत्पत्तिप्रसक्तिः।" सन्मति० टी० पृ० ४७९ । 3 "एतेन ईश्वरादनवस्थानिवृत्तिरिति प्रतिविहितम् ; तस्यादृष्टकल्पनत्वात् , प्रतिषिद्धत्वाच ।" सन्मति० टी० पृ० ४७९ । 4 "न च विषयान्तरसञ्चारादनवस्थानिवृत्तिः, यतो धर्मिज्ञानविषयात् साधनादिविषयान्तरम् , तत्र ज्ञानस्योत्पत्तेः विषयान्तरसञ्चारः । न चापरापरज्ञानग्राहिज्ञानसन्तत्युत्पत्तौ अवश्यम्भाविबाह्यसाधनादिविषयसन्निधानम् , येन तत्र ज्ञानस्य सञ्चारो भवेत् । सन्निधानेऽपि अन्तरङ्गबहिरङ्गयोरन्तरङ्गस्यैव बलीयस्त्वात् नान्तरङ्गविषयपरिहारेण बाह्यविषये शावोत्पत्तिभवेदिति कुतोऽनवस्थानिवृत्तिः ?” सन्मति० टी० ५० ४७९ ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy