________________
सू० १११०] ज्ञानान्तरवेद्यज्ञानवादः
१४५ वात् । अर्थजिज्ञासायां ह्यर्थे ज्ञानम् , ज्ञानजिज्ञासायां तु ज्ञाने, प्रतीतेरेवंविधैत्वात् । इत्यप्यसमीक्षिताभिधानम् तृतीयज्ञानस्याग्रहणे तेन प्राक्तनज्ञानग्रहणविरोधात्, इतरथा सर्वत्रं द्वितीयादिज्ञानकल्पनानर्थक्यं तत्र चोक्तो दोषः।
किञ्च, 'अर्थजिज्ञासायां सत्यामहमुत्पन्नम्' इति तज्ञानादेव५ प्रतीतिः, ज्ञानान्तराद्वा? प्रथमपक्षे जैनमतसिद्धिस्तथाप्रतिपद्यमानं हि ज्ञानं स्वपरपरिच्छेदकं स्यात् । द्वितीयपक्षेपि 'अर्थज्ञानमज्ञातमेव मयार्थस्य परिच्छेदकम्' इति ज्ञानान्तरं प्रतिपद्यते चेत् । तदेव स्वार्थपरिच्छेदकं सिद्धं तथाद्यमपि स्यात् । न प्रतिपद्यते चेत्कथं तथाप्रतिपत्तिः?
किञ्च, अर्थशॉनमर्थमात्मानं च प्रतिपद्य 'अज्ञातमेव मया ज्ञानमर्थ जानाति' इति ज्ञानान्तरं प्रतीयात्, अप्रतिपद्य वा। प्रथमपक्षे त्रिविषयं ज्ञानान्तरं प्रेसज्येत । द्वितीयपक्षे तु अतिप्रसङ्गः 'मयाऽज्ञातमेवादृष्टं सुखादीनि करोति' इत्यपि तेजानीयादविशेषात् ।
१ जातं । २ शानं जातं । ३ जिशासापूर्वकत्वात् । ४ चतुर्थेन । ५ द्वितीय । ६ अर्थशाने । ७ आत्मनि । ८ प्रथमज्ञानेनालम् । ९ अशेषस्य प्राणिमात्र स्याशेषज्ञत्व. लक्षणः । १० अर्थशानं । ११ मित्यादि । १२ प्रथम । १३ कर्तृ । १४ जानाति । १५ ज्ञानान्तरम् । १६ अर्थशानं। १७ ज्ञानत्वाद्वितीयशानवत् । १८ कर्तृ । १९ ज्ञानस्वरूपं । २० त्रिवयमपि द्वितीयशानस्स कर्मभूतम् । २१ ज्ञात्वा । २२ कर्तृ । २३ कर्तृ । २४ बसः । २५ अपसिद्धान्तप्रसङ्गः। २६ कर्त । २७ त्रितयाविषयीकरणस्य ।
1 "स्वयमर्थज्ञानं ममेदमित्यप्रतिपत्तौ तथाप्रतीतेरसंभवात् , प्रतिपत्तौ तु स्वत एव तत्प्रतिपत्तिः, ज्ञानान्तरादा ? स्वतश्चेत् ; स्वार्थपरिच्छेदकत्वसिद्धिवेदनस्य वस्तुबलप्राप्ता, 'क्वचिदर्थे जिज्ञासायां सत्यामहमुत्पन्नमिति स्वयं प्रतिपद्यमानं हि ज्ञानं स्वार्थपरिच्छेदकमभ्यनुज्ञायते नान्यथेति जैनमतसिद्धिः । यदि पुनर्शानान्तरात्तथाप्रतिपत्तिस्तदापि तदर्थज्ञानम् अज्ञातमेवमयाऽर्थस्य परिच्छेदकमिति स्वयं ज्ञानान्तरं प्रतिपद्यते चेत्तदेव स्वार्थपरिच्छेदकं सिद्धम् । न प्रतिपद्यते चेत्कथं तथा प्रतिपत्तिः ।" युक्त्यनु० टी० पृ० ९ । न्यायकुमु० पृ० १८६ ।
2 "किंचेदं विचार्यते-ज्ञानान्तरम् अर्थज्ञानमर्थमात्मानञ्च प्रतिपद्य अशातमेव मया ज्ञातमर्थ जानातीति प्रतिपाद्य, अप्रतिपाद्य वा ? प्रथमे पक्षे अर्थस्य तज्ज्ञानस्य स्वात्मनः स्वपरिच्छेदकत्वविषयं शानान्तरं प्रसज्येत । द्वितीयपक्षे पुनरतिप्रसङ्गः, मुखादिकमज्ञातमेवादृष्टं मया करोतीत्यपि जानीयादविशेषात् ।" युचयनु० टी० पृ० ९।
न्यायकुमु० पृ० १८६ ।। प्र० क० मा० १३