SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ १४० प्रमेयकमलमार्तण्डे [प्रथमपरि० तद्विभ्रमसिद्धौ हि मनःसिद्धिः, ततस्तद्विभ्रमसिद्धिरिति । 'चक्षुरादिकं क्रमवत्कारणापेक्षं कारणान्तरसाकल्ये सत्यप्यनुत्पाद्योत्पादकत्वाद्वासीकतर्यादिवत्' इत्यनुमानत्तित्सिद्धिरित्यापि मनोरथमात्रम् भवदभ्युपगतेन मनसैवानेकान्तात् । न हि तत्साकल्ये तत् तथाभूतमपि क्रमवत्कारणान्तरापेक्षमनवस्थाप्रसङ्गात् । किञ्च, अनुत्पाद्योत्पादकत्वं युगपत् , क्रमेण वा ? युगपञ्चेद्विरुद्धो हेतुः तथोत्पादकत्वस्याक्रमिकारणाधीनत्वात् प्रसिद्धसहभाव्यनेकका यकारिसॉमग्रीवत् । क्रमेण चेदसिद्धः, कर्कटीभक्षणादौ युगपद्रूपादिज्ञानोत्पादकत्वप्रतीतेः । आशुवृत्त्या विभ्रमकल्पनायां तूंक्तम् । १० तन्न मनसः सिद्धिः। सिद्धौ वा न संयोगः, निरंशेयोरेकदेशेन संयोगे सांशत्वम् । सर्वात्मनैकत्वम् उभयव्याघातकारि स्यात् । 'यत्र संयुक्तं मैंनस्तत्र १ मनः। २ यद्यदुत्पादकं तत्तत्क्रमवत्कारणापेक्षम् । ३ आलोकरूपादि । ४ ज्ञान । ५ ता । ६ उत्पादकत्वादित्युच्यमाने नानाङ्कुरोत्पादकै नाबीजैरनेकान्तस्तद्यवच्छेदार्थमनुत्पाद्योत्पादकत्वादित्युक्तं तथापि वीजैरेवानेकान्तस्तव्यवच्छेदार्थ कारणान्तसाकल्ये सतीत्युक्तम् । एकस्माच्चक्षुरादिलक्षणात्कारणादपरमालोकरूपलक्षणं कारणान्तरं कारणान्तरसाकल्ये सत्यनुत्पाद्योत्पादकं न भवति किन्तूत्पादकमेव बीजम् । ७ हस्तः क्रमवत्कारणमत्र । ८ मनः । ९ पर। १० साधनस्य । ११ मनः। १२ अन्यथा। १३ क्रमसाध्ये अक्रममेव साधयेत् । १४ नित्यः शब्दः कृतकत्वात् । १५ अङ्क रादि । १६ बीजानि। १७ क्षित्युदकादिलक्षणा। १८ यथा बीजलक्षणा सामग्री क्षित्युदकादिलक्षणाऽक्रमकारणाधीना। १९ चक्षुरादीनां । २० तद्विभ्रमसिद्धौ हि मनःसिद्धिस्ततस्तविभ्रमसिद्धिरिति दूषणं। २१ स्वप्रक्रियामात्रेण । २२ आत्मना। २३ आत्ममनसोः । २४ घटते । २५ संयोगे। २६ मनोभ्युपगम्य तत्र किञ्च । २७ आत्मनि । २८ समवायिनि । 1 आत्मेन्द्रियार्थाः करणान्तरापेक्षाः सद्भावेऽपि अनुत्पाद्योत्पादकत्वात् । ये हि सद्भावेऽपि कार्यमनुत्पाद्य पश्चादुत्पादयन्ति ते सापेक्षाः यथा तन्त्वादयः अन्त्यसंयो. गापेक्षा इति ।" प्रश० व्यो० पृ. ४२४ । प्रश० कन्द० पृ० ९० । 2 "किंच, अनुत्पाद्योत्पादकत्वमस्य क्रमेण, युगपदा विवक्षितम् ।" न्यायकुमु० पृ० २७१।। .3 "सिद्धौ वा न संयोगः, निरंशयोरात्ममनसोरेकदेशेन संयोगे सांशत्वम् ।" न्यायकुमु० पृ० २७२ । "नच निरंशयोरात्ममनसोः संयोगः संभवी, एकदेशेन तत्संयोगे सांशत्वप्रसक्तेः, सर्वात्मना संयोगे उभयोरेकत्वप्राप्तेः।" सन्मति० टी० पृ० ४७६ । 4 "यदिच यत्र मनः संयुक्तं तत्र समवेतं शानं समुत्पादयति तदा सर्वत्मना
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy