________________
सू० १११०] ज्ञानान्तरवेद्यज्ञानवादः
१३९ ज्ञानस्यानुमानज्ञाने व्यापारदर्शनादत्राप्यविरोध इत्यप्यसम्भाव्यं तद्वत्क्रममावेनात्र ज्ञानद्वयानुपलब्धेः,एकमेव हि तयोहिकं ज्ञानमनुभूयते । ने चात्र विषयसेदाज्ज्ञानभेदकल्पना; समानेन्द्रियग्राह्ये योग्यदेशावस्थितेथे घटपटादिवदेकस्यापि ज्ञानस्य व्यापाराविरोधात् । न च घटादावपि ज्ञानभेदः समानगुणानां युगपद्भा-५ वानभ्युपगमात् । क्रममावे च प्रतीतिविरोधः सर्वज्ञाभावश्च । युगपद्धावाभ्युपगमे चानयोः सव्येतरगोविषाणवत्कार्यकारणभावाभावः । विशेषणविशेष्यज्ञानयोः क्रममावेप्याशुवृत्त्या योगद्याभिमानो यथोत्पलपत्रशतच्छेद इत्यायसङ्गतम् ; निखिलभावानां क्षणिकत्वप्रसङ्गात्सर्वत्रैकत्वाध्यवसायस्याशुवृत्तिप्रवृत्त-१० त्वात् । प्रत्यक्षप्रतिपन्नस्यास्य दृष्टान्तमात्रेण निषेधविरोधाँच्च, अन्यथा शुक्ले शङ्ख पीतविभ्रमदर्शनात्सुवर्णेपि तद्विभ्रमः स्यात् । सूर्तस्य सूच्यग्रस्यौत्तराधर्यस्थितमुत्पलपत्रशतं युगपत्प्राप्तुमशक्तेः क्रमच्छेदेप्याशुवृत्त्या योगपद्याभिमानो युक्तः, पुंसस्तु वावरणक्षयोपशमापेक्षस्य युगपत्स्वपरप्रकाशनवभावस्य समग्रेन्द्रियस्या-१५ प्राप्तार्थग्राहिणः स्वयममूर्तस्य युगपत्स्वविषयग्रहणे विरोधाभावात् किन्न युंगपज्ज्ञानोत्पत्तिः ?
न च मैंनोणि सूच्यग्रवन्मू-मिन्द्रियाणि तूत्पलपत्रवत्परस्परपरिहारस्थितानि युगपत्प्राप्तुं न समर्थमिति वाच्यम् तथाभूतस्यास्याऽसिद्धेः । युगपज्ज्ञानोत्पत्तिविभ्रमात्तत्सिद्धौ परस्पराश्रयः-२०
१ अग्न्यादिवाने । २ विशेष्यपरिच्छित्तौ। ३ विशेषणज्ञानव्यापारस्य । ४ लिङ्गलिङ्गिशानस्य । ५ नीलोत्पलयोर्विशेषणविशेष्ययोः । ६ एक। ७ अग्न्यादि । ८ शानानां । ९ नैयायिकानामनभ्युपगमात् । १० परैः। ११ कृत्वा। १२ कल्पना। १३ कथं । १४ घटपटादिपदार्थे । १५ एकोयमित्यध्यवसायः। १६ विशेषणविशेष्यशानयोगपद्यस्य । १७ किञ्च। १८ अविरोधे। १९ विशेषणविशेष्यरूप । २० कर्तृ । २१ कर्मरूपाणि । २२ परेण । __1 "न चात्र विषयभेदाज्शानभेदकल्पनोपपत्तिमती; समानेन्द्रियग्राह्ये योग्यदेशावस्थितेऽर्थे घटपटादिवदेकस्यापि ज्ञानस्य व्यापाराविरोधात् ।" स्या. रत्ना० पृ० २३०।
2 "मूर्तस्य सूच्यग्रस्यौत्तराधर्यव्यवस्थितमुत्पलपत्रशतं युगपद् ब्याप्तुमशक्केः क्रम• मेदेऽप्याशुवृत्तेः योगपद्याभिमान इति युक्तम् , आत्मनस्तु क्षयोपशमसव्यपेक्षस्य युगपत् स्वपरप्रकाशनस्वभावस्य स्वयममूर्तस्याप्राप्तार्थग्राहिणो युगपत् स्वविषयग्रहणे न कश्चिद्विरोध इति किन्न युगपज्ज्ञानोत्पत्तिः।" सन्मति० टी० पृ० ४७८ ।
3 "नच मनोऽपि सूच्यप्रवन्मूतमिन्द्रियाणि तूत्पलपत्रवत् परस्परपरिहारस्थितस्वरूपाणि न युगपद्माप्तुं समर्थमिति न युगपज्शानोत्पत्तिः, तथाभूतस्य तस्यैवासिद्धः।"
सन्मति० टी० पृ० ४७८ ।