________________
प्रमेयकालमार्तण्डे [प्रथमपरि० प्रथमपक्षे-महेश्वरस्यासार्वज्ञत्वप्रसङ्गस्तज्ज्ञानेन्न तस्याऽवेद्यत्वात। आत्मसमवेतानन्तरझॉनवेद्यत्वाभावे च ___ "स्वसमवेतानन्तरज्ञानवेद्यमर्थज्ञानम्" [ ] इति ग्रन्थविरोधो मीमांसकमतँप्रवेशश्च स्यात् । ज्ञानान्तरापेक्षया तस्य ५ कर्मत्वाविरोधे च-स्वरूपापेक्षयाप्यविरोधोऽस्तु सहस्रकिरणवत्वपरोद्योतनस्वभावत्वात्तस्य । कर्मत्ववंच ज्ञानक्रियातोऽर्थान्तरस्यैव करणत्वदर्शनात्तस्यापि तत्र विरोधोऽस्तु विशेषाभावात । तथा च 'ज्ञानेनाहमर्थ जानामि' इत्यत्र ज्ञानस्य करणतया प्रती तिर्न स्यात् । १० विशेषणज्ञानस्य करणत्वाद्विशेष्यज्ञानस्य तत्फलत्वेन कियात्वात्तयोर्भेद एवेत्यपि श्रद्धामात्रम् ; "विशेषणज्ञानेन विशेष्यमहं जानामि' इति प्रतीत्यभावात् । 'विशेषणज्ञानेन हि 'विशेषणं विशेष्यज्ञानेन च विशेष्यं जानामि' इत्यखिलजनोऽनुमन्यते ।
किञ्च,नयोर्विषयो भिन्नः, अभिन्नो वा प्रथमपक्षे-विशेषणवि१५शेष्यज्ञानद्वयपरिकल्पना व्यर्थाऽर्थभेदाभावाद्धारावाहिविज्ञानवत्। द्वितीयपक्षे चानयोः प्रमाणफलव्यवस्थाविरोधोऽर्थान्तरविषयत्वाद् घटपटज्ञानवत् । न खलु घटज्ञानस्य पटज्ञानं फलम् । न चौन्यत्र व्याप्ते विशेषणशाने ततोऽर्थान्तरे विशेष्ये परिच्छित्ति
र्युक्ता । नैं हि खदिरादावुत्पतननिय(प)तनव्यापारवति परशौ २० ततोऽन्यत्र धवादौ छिदिक्रियोत्पद्यते इत्येतत्प्रातीतिकम् । लिङ्ग
१ अस्मदादिशानस्य । २ प्रथमशान । ३ द्वितीयज्ञानेन । ४ किञ्च । ५ योगस्य । ६ करणज्ञानं न प्रत्यक्षं कर्मत्वेनाप्रतीयमानत्वात् । ७ ज्ञानान्तरेणाप्यप्रत्यक्षत्वात् । ८ स्वरूपापेक्षया कर्मत्वविरोधं ब्रमः । ज्ञानान्तरापेक्षया किं कर्मत्वविरोधोस्ति । ९ परेणाङ्गीकृते। १० किञ्च । ११ कुठारादेः। १२ ज्ञानाद्भिन्नस्य करणत्वस्याविशेषात्कर्मत्ववत् । १३ शानकरणत्वविरोधे सति । १४ करणशानेन । १५ पक्षे । १६ लोके। १७ करणशानक्रियाशानयोः। १८ नीलादिज्ञानेन दण्डादिशानेन वा। १९ जानामि । २० उत्पलादिकं दण्डीत्यादिकं । २१ ता। २२ विशेषणशानविशेष्यज्ञानयोः। २३ विशेषणशानविशेष्यशानयोः। २४ भिन्नविषयत्वात् । २५ किञ्च । २६ नीलादौ विशेषणे। २७ सति । २८ उत्पलादौ । २९ ज्ञानं । ३० कथं । ३१ सति । ३२ धूमादिशानस्य ।
"प्रमाणफलते बुझ्योविशेषणविशेष्योः ।
यदा तदापि पूर्वोक्ताऽभिन्नार्थत्वनिराक्रिया ॥" मीमांसाशो० पृ० १५६ । 1 "विशेषणशानं करणं विशेष्यज्ञानं तत्फलत्वात् ज्ञानक्रियेति चेत्, स्यादेवं यदि विशेषणज्ञानेन विशेष्यं जानामीति प्रतीतिरुत्पद्यते ।" स्या० रखा० पृ० २२८ ।