SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ सू० ११०] ज्ञानान्तरवेद्यज्ञानवादः १३५ धृत्वात् , न खलु विशिष्टे दृष्टं धर्ममविशिष्टेपि योजयन् प्रेक्षावचा लभते निखिलार्थवेदित्वस्याप्यखिलज्ञानानां तद्वत्प्रसङ्गात् । इत्यप्यसमीचीनम् ; स्वभावावलम्वनात् । स्वपरप्रकाशात्मकत्वं हि शानसामान्यस्वभावो न पुनर्विशिष्टविज्ञानस्यैव धर्मः। तंत्र तस्योपलम्भमात्रात्तद्धर्मत्वे भानौ स्वपरप्रकाशात्मकत्वोपलम्भात् प्रदीपे५ तत्प्रतिषेधप्रसङ्गः । तत्स्वभावत्वे तंद्वत्तेषां निखिलार्थवेदित्वानुपङ्गश्चेत् । तर्हि प्रदीपस्य खपरप्रकाशात्मकत्वे भानुवन्निखिलार्थोद्योतकत्वानुषङ्गः किन्न स्यात् ? योग्यतावशात्तदात्मकत्वाविशेषेपि प्रदीपादेनियतार्थोद्योतकत्वं ज्ञानेपि समानम् । ततो ज्ञानं खपरप्रकाशात्मकं ज्ञानत्वान्महेश्वरज्ञानवत्, अव्यवधानेनार्थप्र-१० काँशकत्वाद्वी, अर्थग्रहणात्मकत्वाद्वा तद्वदेव, यत्पुनः स्वपरप्रकाशात्मकं न भवति न तद् ज्ञानम् अव्यवधानेनार्थप्रकाशकम् अर्थग्रहणात्मकं वा, यथा चक्षुरादि। आश्रयासिद्धश्च 'प्रमेयत्वात्' इत्ययं हेतुः, धर्मिणो ज्ञानस्यासिद्धेः । तत्सिद्धिः खलु प्रत्यक्षतः, अनुमानतो वा प्रमाणान्तरस्या-१५ त्रानधिकारात् ? तत्र न तावत्प्रत्यक्षतः; तस्येन्द्रियार्थसन्निकर्षजत्वाभ्युपगमाद , तज्ज्ञानेन चक्षुरादीन्द्रियस्य सन्निकर्षाभावात् । अन्यदिन्द्रियं तेन चास्य सन्निकर्षों वाच्यः। मनोन्तःकरणम् , तेन चास्य संयुक्तसमवायः सम्वन्धः, तत्प्रभवं चाध्यक्षं धर्मिस्वरूपग्राहकम्-मनो हि संयुक्तमात्मना तत्रैव समवायस्तज्ज्ञानस्येति २० तदयुक्तम् ; मनसोऽसिद्धः । अथ 'घटादिज्ञानज्ञानम् इन्द्रियार्थ १ स्वपरप्रकाशात्मकत्वं स्वसंविदितत्वं । २ असदादिज्ञाने। ३ अन्यथा । ४ निखिलं ज्ञानमखिलार्थवेदि शानत्वादीश्वरज्ञानवत् । ५ ता। ६ महेश्वरशाने शम्भौ च । ७ स्वप्रक्रियामात्रात् । ८ रवौ। ९ ईश्वरशानवत् । १० अस्सदादिशानानां । ११ शक्तिः। १२ कतिपय। १३ चक्षुरादिना व्यभिचारः। १४ भिन्नविशेषणं । १५ परिच्छित्ति । १६ अभिन्नविशेषणं। १७ बसः। १८ किञ्च । १९ घटादिज्ञानस्य । २० परेण। २१ चक्षुरादिपञ्चभ्यः। २२ परेण। २३ इन्द्रियं । २४ मनः। २५ घटादिशान।। न हि विशिष्टे दृष्टं धर्ममविशिष्टऽपि घटयन् प्रेक्षावत्तां लभते इति; सापि न परीक्षासहा, ज्ञानान्तरस्यापि प्रज्ञानेन वेद्यत्वे अनवस्थानुषंगात् ।" प्रमाणप० पृ० ६०॥ न्यायकुमु० पृ० १८३ । स्या. रत्ना० पृ० २२२ । 1 "अत्र प्रयोगे हेतुराश्रयासिद्धः स्वरूपासिद्धश्च धर्मिणो ज्ञानस्याप्रतिपत्तौ तदाश्रितज्ञेयत्वधर्माप्रत्तिपत्तेः । तत्प्रसिद्धिः अध्यक्षतोऽनुमानतो वा प्रमाणान्तरस्यात्रानधिकारात् ।" सन्मति० टी० पु. ४७५ ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy