________________
१३६ प्रमेयकमलमार्तण्डे
[प्रथमपरि० सन्निकर्षजं प्रत्यक्षत्वे सति ज्ञानत्वात् चक्षुरादिप्रभवरूपादिशानवत्' इत्यनुमानात्तत्सिद्धिरित्यभिधीयते, तदप्यभिधानमात्रमः हेतोरप्रसिद्धविशेषणत्वात् । न हि घटादिज्ञानज्ञानस्याध्यक्षत्वं सिंद्धम्, इतरेतराश्रयानुषङ्गात्-मनःसिद्धौ हि तस्याध्यक्षव. ५ सिद्धिः, तत्सिद्धौ च सविशेषणहेतुसिद्धेर्मनःसिद्धिरिति। विशेष्यासिद्धत्वं च न खलु घटज्ञानाद्भिन्नमन्यज्ज्ञानं तद्राहकमनुभूयते। सुखादिसंवेदनेने व्यभिचारश्च; तद्धि प्रत्यक्षत्वे सति ज्ञानं न तजन्यमिति । अस्यापि पक्षीकरणान्न दोष इत्ययुक्तम् ; व्यभि.
चारविषयस्य पक्षीकरणे न कश्चिद्धतुर्व्यभिचारी स्यात् । 'अनित्यः १० शब्दःप्रमेयत्वाद् घटवत्' इत्यादेरप्यात्मादिना न व्यभिचारस्तस्य
पक्षीकृतत्वात् । प्रत्यक्षादिबाधो यत्र समाना । न हि 'घटादिवत्सुखाद्यविदितखरूपं पूर्वमुत्पन्नं पुनरिन्द्रियेण सम्वध्यते ततो ज्ञानं ग्रहणं च' इति लोके प्रतीतिः, प्रथममेवेष्टानिष्टविषयानुभवानन्तरं स्वप्रकाशात्मनोऽस्योदयप्रतीतिः । १५ वात्मनि क्रियाविरोधान्मिथ्येयं प्रतीतिः, न हि सुतीक्ष्णोपि.
खड्ग आत्मानं छिनत्ति, सुशिक्षितोपि वा नटबटुः खं स्कन्धमारोहतीत्यप्यसमीचीनम् ; स्वात्मन्येव क्रियायाः प्रतीतेः । खात्मा हि क्रियायाः स्वरूपम् , क्रियावदात्मा वा ? यदि स्वरूपम् , कथं तस्यास्तत्र विरोधः स्वरूपस्याविरोधकत्वात् ? अन्यथा सर्वभावानां
१ अनुमानज्ञानेन व्यभिचारस्तत्परिहारार्थ प्रत्यक्षत्वे सति ग्रहणम् । २ अन्यथा । ३ हेतोः। ४ घटञ्चान। ५ इन्द्रियार्थसन्निकर्षजं न भवति । ६ प्रमेयेन । ७ आत्मनोऽनित्यत्वे सुखादिसंवेदनस्येन्द्रियार्थसन्निकर्षजत्वे च। ८ पश्चात् । ९ मानसं करणरूपम् । १० सुखादिसंवेदनस्य । ११ प्रकाशलक्षणायाः। १२ ता । १३ आत्मार्थवाचकखशब्दपक्षे। १४ आत्मीयार्थवाचकस्वशब्दपक्षे। १५ विरोधकत्वे । १६ घटादि। __1"न; अस्य हेतोरप्रसिद्धविशेषणत्वात् , नहि घटादिज्ञानज्ञानस्य अध्यक्षत्वं सिद्धम् इतरेतराश्रयत्वात् ।"
सन्मति० टी० पृ० ४७६ 2 "सुखसंवेदनेन व्यभिचारी च; तथाहि-तत्संवेदनमध्यक्षत्वे सति ज्ञानं न च तज्जन्यमिति व्यभिचारः । अथास्यापि पक्षीकरणाददोषः, तथाहि-सुखादिसंवेदनमिन्द्रियार्थसन्निकर्षजम् अध्यक्षज्ञानत्वात् चक्षुरादिप्रभवरूपादिवेदनवत्, सुखादि भिन्नशानवेद्यः ज्ञेयत्वात् घटवत् ।"
सन्मति० टी० पृ० ४७६ 3 "स्वात्मनि वृत्तिविरोधात् , नहि तदेव अंगुल्यग्रं तेनैव अंगुल्यग्रेण स्पृश्यते, सैवासिधारा तयैवासिधारया छिद्यते।" स्फुटार्थ-अमिध० पृ० ७८
4 "स्वात्मा हि क्रियायाःस्वरूपं क्रियावदात्मा वा ?" आप्तप० पृ० ४७ । न्यायककुमु० पृ० १८८ । स्था० रत्ना० पृ० २२९ ।