SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ १२६ গজস্বচএডউ | সদ্য বি০ মীন নালা ; হাঙ্গেলীহপ্রবন্ধান 'येगुड्या वयार्थ प्रकटीभवति' इत्यस्यैवान्धपरस्परया व्यवस्थापयितुलशले प्रत्यक्षत्वे चात्मनः सिद्धं विज्ञानमा स्वार्थव्यवसायात्मकत्वम् ! आत्मैव हि स्वार्थग्रहणपरिणतो जानातीति ज्ञान५ मिति साधनज्ञानशब्देनाभिधीयते । इन्द्रियार्थो लिङ्गमित्यप्यनालोचिताभिधानम्। तयोर्विज्ञानसद्भावाविनाभावासिद्धेः। योग्यदेशे स्थितस्य प्रतिपत्तुरिन्द्रियार्थसद्भावेप्यन्यत्र गतमनसो विज्ञानाभावात् । तत्सिद्धौ चेन्द्रिय स्यातीन्द्रियत्वेनार्थत्यापि ज्ञानाऽप्रत्यक्षत्वेनासिद्धेः कथं तथापि १० हेतुत्वं तयोः ? सिद्धौ वा न साध्यज्ञानकाले ज्ञानान्तरात्तत्सिद्धि युगपद् ज्ञानानुत्पत्त्यभ्युपगमात् । उत्तरकालीनज्ञानात्तत्सिद्धौतदा साध्यज्ञानस्याभावात्कस्यानुमानम् ? उभयविषयस्यैकज्ञानस्यानभ्युपगमानवस्थाप्रसङ्गाच्चानयोरसिद्धिः। इन्द्रियार्थसहकारिगुणं मनो लिङ्गमित्यप्यपरीक्षिताभिधा१५ नम्, तत्सद्भावासिद्धेः । युगपद् ज्ञानानुत्पत्तेस्तत्सिद्धिः, तथा हि-आत्मनो मनसा तस्येन्द्रियैः सम्बन्धे ज्ञानमुत्पद्यते । यदा चास्य चक्षुषा सम्वन्धो न तदा शेषेन्द्रियैरतिसूक्ष्मत्वात् ; इत्यप्यसङ्गतम् । दीर्घशष्कुलीभक्षणादौ युगपद्रूपादिज्ञानपञ्चकोत्पत्तिप्रतीतेः अश्वविकल्पकाले गोनिश्चयाच्च तदसिद्धेः । न चात्र क्रमैका२० न्तकल्पना प्रत्यक्षविरोधात् । किञ्चैवंवादिना (किं) युगपत्तीतं येनावयवावयव्यादिव्यवहारः स्यात् ? घटपटादिकमिति चेत् न; अत्रापि तथा कल्पनाप्रसङ्गात् । किञ्चातिसूक्ष्मस्यापि मनसो नयना १ करणशान । २ ता। ३ ज्ञान । ४ द्वितीयविकल्पस्य । ५ करणशानस्य । ६ मा (तृतीया)। ७ कस्मिंश्चिद्विषये। ८ करणज्ञानस्य सर्वथा परोक्षत्वात् । ९ इन्द्रियार्थयोः। १० अतिद्धत्वेपि । ११ करणशानं प्रति । १२ करणाने। १३ इन्द्रियार्थ । १४ इन्द्रियाल्लिङ्गात्करणज्ञानसिद्धिरिन्द्रियार्थयोरपि सिद्धिः कस्माद. परकरणशानात्तस्यापि अपरेन्द्रियार्थादित्यनवस्था। १५ एकाग्रम् । १६ मनसः । १७ च शब्दः आधिक्ये । १८ दीर्घशष्कुलीभक्षणादौ युगपद् शानं नोत्पद्यते इत्येवं. वादिना। १९ अत्राक्षेपार्थे किमिति पूर्वेण सम्बन्धः । २० क्रमैकान्त । 1 "अश्वविकल्पकाले गोदर्शनानुभवात् युगपज्ञानानुत्पत्तिश्चासिद्धा कथं मनोऽनुमापिका ? नचाश्वविकल्पगोदर्शनयोर्युगपदनुभवेऽपि क्रमोत्पत्तिकल्पना प्रत्यक्षविरो. धात् ।" सन्मति० टी० पृ० ४७७ । 2 "किंच, चक्षुराधन्यतमेन्द्रियसम्बन्धात् रूपादिशानोत्पत्तिकाले मनसः सम्बन्धात् मानसज्ञानं किन्न भवेत् ? तथाविधादृष्टा भावादित्युत्तरम् अदृष्टनिमित्तयुगपज्ज्ञानानुत्पत्तिप्रसक्तितो मनसोऽनिमित्तता..." सन्मति० टी० पृ० ४७७ ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy