________________
মঈনুদাউ
प्रथमपरि०
ऽर्थप्रत्यक्षवल्याप्यपलापप्रसङ्गात् । प्रतीति सिद्धस्वभावस्यैकत्रापलायेऽन्यनामावालाच चित्प्रतिनियतस्वभावव्यवस्था स्थात् ।
व्हि, इरं प्रत्यक्षता अर्थधर्मः, ज्ञानधर्मो वा ? न तावदर्थधर्मः, नीलतादिवत्तद्देशे ज्ञानकालादन्यदाप्यनेकप्रमातृसाधारणविषय९ तया च प्रसिद्धिप्रसङ्गात् । न चैवम् , आत्मन्येवास्या ज्ञानकाले एव स्वासाधारणविषयतया च प्रसिद्धः । तथा च न प्रत्यक्षता अर्थधर्मः तद्देशे ज्ञानकालादन्यदाप्यनेकप्रमातृसाधारणविपयतया चाऽप्रसिद्धत्वात् । यस्तु तद्धर्मः स तद्देशे ज्ञानकालादन्यदाप्यनेकप्रमातृसाधारणविषयतया च प्रसिद्धो दृष्टः, यथा रूपादिः, १० तद्देशे ज्ञानकालादन्यदाप्यनेकप्रमातृसाधारणविषयतया चामसिद्धा चेयम् तस्मान्न तद्धर्मः। यस्यात्मनो ज्ञानेनार्थः प्रकटीक्रियते तंदज्ञानकाले तस्यैव सोऽर्थः प्रत्यक्षो भवतीत्यपि श्रद्धामात्रम् अर्थप्रकाशकविज्ञानस्य प्राकट्याभावे तेनार्थप्रेकटीकरणासम्भवा
दीपवत्, अन्यथा सन्तानान्तरवर्तिनोपि ज्ञानादर्थप्राकट्य१५प्रसङ्गः। चक्षुरादिवत्तस्य प्राकट्याभावेप्यर्थे प्राकट्यं घटेतेत्यप्यसमीचीनम् ; चक्षुरादेरर्थप्रकाशकत्वासम्भवात् । तत्प्रकाशकज्ञानहेतुत्वात् खलूपचारेणार्थप्रकाशकत्वम् । कारणस्य चाशातस्यापि कार्ये व्यापाराविरोधो ज्ञापकस्यैवाज्ञातस्य ज्ञापकत्वविरोधात्
"नाज्ञातं ज्ञापकं नाम" [ ] इत्यखिलैः परीक्षादक्षैरभ्युप२० गमात् । प्रमातुरात्मनो ज्ञापकस्य स्वयं प्रकाशमानस्योपगमादर्थे प्राकट्यसमवे करणशानकल्पनावैफल्यमित्युक्तम् । नापि शानधर्मः अस्य सर्वथा परोक्षतयोपगमात् । यत्खलु सर्वथा परोक्षं तन्न प्रत्यक्षताधर्माधारो यथाऽदृष्टादि, सर्वथा परोक्षं च परैरभ्युपगतं ज्ञानमिति ।
१ करणशानं प्रत्यक्षमर्थप्रत्यक्षत्वान्यथानुपपत्तेः । २ प्रत्यक्षत्वरूपस्य । ३ करणशाने। ४ स्थूलत्वाद्यर्थे। ५ अविश्वासात् । ६ वस्तुनि । ७ घटपटादि । ८ अन्यथा। ९ सन्दिग्धानकान्तिकत्वमनेन वाक्येनार्थधर्मत्वादित्येतस्य हेतोः। १० करणज्ञानेन। ११ करण। १२ शानं नार्थ प्रकटयति खयमप्रत्यक्षत्वात्परमाण्वादिवत् । १३ करणशानं प्रत्यक्षमर्थप्रकाशकत्वात्प्रदीपवत् । १४ अ(प्रत्यक्षादपि शानादर्थप्राकट्ये । १५ पुरुषान्तर । १६ स्वस्य । १७ उभयत्रापि परोक्षत्वाविशेषात् । १८ कारकस्य । १९ किञ्च । २० करणशानं न प्राकट्यधर्माधिकरणं सर्वथा परोक्षतयोपगमात् । २१ करणम् ।
1“अथ प्रकाशतामात्रं तदपि शानधर्मः, अर्थधर्मः उभयधर्मः, स्वतत्रं वा स्यात."
न्यायकुमु० पृ० १७९।