SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ सू० ११७] भूतचैतन्यवादः दिविवर्तमवतिष्ठेत सहकारिभावोपैगमे तु तेषों चैतन्यपि सोऽस्तु । यथैव हि प्रथमाविर्भूतपावकादेस्तिरोहितपावान्तरादिपूर्वकत्वं तथा गर्भचैतन्यत्मानिर्भूतस्वभावस्य तिरोहितचैतन्यपूर्वकत्वमिति। न चानाद्येकानुभवितव्यतिरेकेगेष्टानिष्टविषये प्रत्यभिज्ञानाभि-५ लापादयो जन्मादौ युज्यन्ते; तेषामभ्यासपूर्वकत्वात् । न च मात्रुदरस्थितस्य चहिर्विषयादर्शनेऽभ्यासो युक्तः, अतिप्रसङ्गात् । न चावलग्नावस्थायामभ्यासपूर्वकत्वेन प्रतिपन्नानामप्यनुसन्धानादीनां जन्मादीवतत्पूर्वकत्वं युक्तम् । अन्यथा धूमोऽग्निपूर्वको दृष्टोप्यनग्निपूर्वकः स्यात् । मातापित्रभ्यासपूर्वकत्वात्तेषामदोषो-१० यमित्यप्यसम्भाव्यम् ; सन्तानान्तराभ्यासादन्यत्र प्रत्यभिज्ञानेऽतिप्रसङ्गात् । तदुपलब्धे 'सर्व मैयैवोपलब्धमेतत्' इत्यनुसन्धानं चौखिलापत्यानां स्यात् । परस्परं वा तेषां प्रत्यभिज्ञानप्रसङ्गः स्यात् , एकसैंन्तानोद्भूतदर्शनस्पर्शनप्रत्ययवत् । ___ 'ज्ञानेनाहं घटादिकं जानामि' इत्यहम्प्रत्ययप्रसिद्धत्वाचात्मनो १५ नापलापो युक्तः। अत्र हि यथा कर्मतया विषयस्यावभासस्तथा कर्तृतयात्मनोनिन चौत्र देहेन्द्रियादीनां कर्तृता; घटादिवत्तेषामाथि कर्मतयाऽवभासनात्, तदप्रतिभासनेप्यहम्प्रत्ययस्यानुभवात् । न हि बहलतमःपटलपटावगुण्ठितविग्रॅहस्योपरतेन्द्रिय १ बसः। २ परेण । ३ अग्नि प्रत्यरणिरूपपृथ्व्यादीनाम् । ४ दधि । ५ शक्तिरूपस्थित । ६ उपादान। ७ शक्तिरूपस्थित । ८ उपादान । ९ किञ्च। १० आत्म । ११ संस्कार । १२ वालकस्य । १३ त्रिविप्रकृष्टेप्यर्थेऽभ्यासो भवत्वदर्शनाविशेषात् । १४ मध्यमावस्थायां । १५ प्रत्यभिज्ञानादीनाम् । १६ अनभ्यास। १७ अपत्यस्य । १८ मातापितृलक्षण । १९ अपत्ये । २० वस्तुनि । २१ अपत्येन । २२ किञ्च । २३ एकापत्येन दृष्टेऽथे द्वितीयापत्यस्य प्रत्यभिज्ञानप्रसङ्गः स्यात् । २४ आत्मलक्षण । २५. किञ्च । २६ निवः। २७ ज्ञानेनाहं घटादिकं जानामीति प्रत्यये । २८ ज्ञानेनाहं घटादिकं जानामीति प्रत्यये। २९ देहेन्द्रियादिकं जानामि । ३० नरस्य । 1 "पूर्वानुभूतस्मृत्यनुबन्धाज्जातस्य हर्षभयशोकसम्प्रतिपत्तेः ।" . न्यायसू० ३।१।१९ । न्यायमं० पृ० ४७० । "जातिस्मराणां संवादादपि संस्कारसंस्थितः।। . अन्यथा कल्पयंलोकमतिकामति केवलम् ।। नाऽस्मृतेऽभिलाषोऽस्ति न विना सापि दर्शनात् । ...... . तद्धि जन्मान्तरान्नायं जातमात्रेऽपि लक्ष्यते ॥" . न्यायविनि० २१७९,८० । न्यायकुमु० पृ० ३४७ ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy