SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ १२० प्रमेयकमलमार्तण्डे [प्रथमपरि० व्यापारस्य गौरस्थौल्यादिधर्मायेतं शरीरं प्रतिभासते। अहम्प्रत्ययः स्वसंविदितः पुनस्तस्यानुभूयमानो देहेन्द्रियाविषयादिव्यतिरितार्थालस्बनः सिद्धतीति प्रमाणप्रसिद्धोऽनादिनिधनो द्रव्यान्तरमात्मा प्रयोगः-अनाद्यनन्त आत्मा द्रव्यत्वात्पृथिव्यादिवत् । ५न तावदाश्रयासिद्धोयं हेतुः; आत्मनोऽहम्प्रत्ययप्रसिद्धत्वात् । नायि स्वरूपासिद्धः; द्रव्यलक्षणोपलक्षितत्वात् । तथाहि-द्रव्य. मात्मा गुणपर्ययवत्त्वात्पृथिव्यादिवत् । न चायमप्यासिद्धो हेतुः; ज्ञानदर्शनादिगुणानां सुखदुःखहर्षविपादादिपर्यायाणां च तंत्र सद्भावात् । न च घटादिनानेकान्तस्तस्य मृदादिपर्ययत्वात् । १० ननु शरीररहितस्यात्मनः प्रतिभाले ततोऽज्योऽनादिनिधनो. ऽसाविति स्यात् जलरहितत्यानलस्येव, न चैवम् , आसंसारं तत्सहितस्यैवास्यावभासनात् । तंत्र शरीररहितस्य' इति कोऽर्थः ? किं तत्स्वभावविकलस्य, आहोस्वित्तद्देशपरिहारेण देशान्तरावस्थितस्येति ? तत्राद्यपक्षेऽस्त्येव तद्रहितस्यास्य प्रतिभासः१५ रूपादिमदचेतनस्वभावशरीरविलक्षणतया अमूर्तचैतन्यस्वभावतया चात्मनोऽध्यक्षगोचरत्वेनोक्तत्वात् । द्वितीयपक्षे तु-शरीरदेशादन्यत्रीनुपलम्भात्तत्र तदभावः, शरीरप्रदेश एव वा ? प्रथमविकल्पे-सिद्धसाधनम् । तत्र तदभावाभ्युपगमात् । न खलु नैयायिकवज्जैनेनापि खदेहादन्यत्रात्मेष्यते । द्वितीयविकल्पे तु२० न केवलमात्मनोऽभावोऽपि तु घटादेरपि । न हि सोपि स्वदेशादन्यत्रोपलभ्यते। किञ्च, स्वशरीरादात्मनोऽन्यत्वाभावः तत्स्वभौवत्वात् , तहुणत्वात् वा स्यात् , तत्कार्यत्वाद्वा प्रकारान्तरासम्भवात् । पक्षत्रयेपि प्रागेव दत्तमुत्तरम् । ततश्चैतन्यस्वभावस्यात्मनः प्रमाणतः प्रसिद्ध १ पश्चात् । २ मनः। ३ आत्मा । ४ अनादिनिधनस्य। ५ आत्मनि । ६ द्रव्यत्वादिति हेतोः। ७ सति । ८ परिहारमाह । ९ उक्त ग्रन्थे । १० प्रतिभासाभावः। ११ प्रतिभासाभावः। १२ देशे। १३ जीवस्य । १४ ता। १५ जैनैः। १६ तत्स्वभावस्य यद्यतोऽसाधारणलक्षणविशेषविशिष्टं तत्ततस्तत्वान्तरमित्यादिना निरस्तत्वात् । १७ जैनैः । "द्रव्यतोऽनादिपर्यन्तः सत्त्वात् क्षित्यादितत्त्ववत् । स स्यान्न व्यभिचारोऽत्र हेतो शिन्यसंभवात् ॥ १४० ॥" तत्त्वार्थ श्लो० पृ० ३२। 2 "शरीररहितस्येति कोऽर्थः-किं तत्स्वभावविकलस्य आहो तद्देशपरिहारेण देशा• न्तरावस्थितस्येति ।" स्या० रत्ना० पृ० १०८० ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy