SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ ११० प्रमेयकमलमार्तण्डे प्रथमपरि० वत् क्षणिकत्वादेरपि प्रसिद्धस्तदर्थ मनुमानमनर्थकम् । तदसिद्धौ वा नीलत्वादेरप्यतः सिद्धिर्न स्यादविशेषात् । ननु चानेकस्वभावार्थाकारत्नेपि ज्ञानस्य यस्मिन्नेवांशे संस्कारपाटवान्निश्चयोत्पादकत्वं तत्रैव प्रामाण्यं नान्यत्रेति । नन्वसौ निश्चयः साकारः, ५निराकारो वा? साकारत्वे-तंत्रापि नीलाद्याँकारस्य क्षणिकत्वाद्याकारानेदाभेदपक्षयोः पूर्वोक्तदोषप्रसङ्गः । तत्रापि निश्चन्तिरकल्पनेऽनवस्था । अथ निराकारः; तर्हि निश्चयात्मना सर्वार्थेष्वविशिष्टस्य ज्ञानस्य 'अयमस्यार्थस्य निश्चयः' इति प्रतिकर्मनियमः कुतः सिद्ध्येत् ? निराकारस्यापि कुतश्चिनिमित्तात् प्रतिकर्म२० सिद्धावन्यत्राप्यत एव तत्सिद्धेः किमाकॉरकल्पनयेति ? नन्वस्तु निराकारत्वं विज्ञानस्य; न तु स्वसंविदितत्वं भूतपरिणामत्वादर्पणादिवदित्यययुक्तम् ; हेतोरसिद्धः । भूतपरिणामत्वे हि विज्ञानस्य वाह्येन्द्रियप्रत्यक्षत्वप्रसङ्गो दर्पणादिवत् । सूक्ष्म भूतविशेषणपरिणामत्वान्न तत्प्रसङ्गः, इत्यप्यसङ्गतम् । स हि चैत१५ न्येने सजातीयः, विजातीयो वा तदुत्पादन(तदुणादान)हेतुः स्यात् ? प्रथमपक्षे सिद्धसाध्यता; सूक्ष्मो हि भूतविशेषोऽचेतनद्रव्यव्यावृत्तखभावो रुपादिरहितः सर्वदा वाह्येन्द्रियाविषयः १ अर्थस्य । २ क्षणिकत्वादि । ३ सर्व क्षणिकं सत्त्वात् । ४ नीलाकारज्ञानात् । ५ अभिन्नत्वस्य । ६ यस्य शानस्य । ७ नीले । ८ विकल्प । ९ क्षणिकांशे । १० भो बौद्ध । ११ ज्ञानेनोत्पाद्यः। १२ साकारनिश्चयविषयेथे । १३ निश्चयगतस्य । १४ अक्षणिकत्वादि । १५ अभिन्नपक्षे । निश्चयगतनीलाद्याकारे । १६ नीलगतक्षणिकत्वनिश्चयपरिहारार्थम् । १७ ग्रन्थानवस्था । १८ निश्चयः। १९ स्वस्वरूपेण । २० साधारणस्य । २१ नीलस्य । २२ योग्यतातः। २३ निराकारज्ञानपक्षेपि । २४ किं प्रयोजनं न किमपि । २५ जैनं प्रति चार्वाको ब्रूते। २६ हेतोरसिद्धत्वमेव दर्शयन्ति । २७ ज्ञानस्य । २८ सूक्ष्मभूतविशेषः। २९ ज्ञानेन। ३० असाकं जैनानाम् । ३१ प्राणी । ३२ रसगन्धवर्णशब्दैश्च । "सूक्ष्मो भूतविशेषश्चेदुपादानं चितो मतम् । स एवात्मास्तु चिज्जातिसमन्वितवपुर्यदि ॥ ११०॥ तद्विजातिः कथन्नाम चिदुपादानकारणम् । भवतस्तेजसोऽम्भोवत् तथैवादृष्टकल्पना ॥ १११॥ .. . सत्त्वादिना समानत्वाच्चिदुपादानकल्पने । क्ष्मादीनामपि तत्केन निवार्येत परस्परम् ॥ ११२॥ सूक्ष्मभूतविशेषः चैतन्येन विजातीयः सजातीयो वा ?" . तत्त्वार्थश्लो० पृ० २९ । न्यायकुमु० पृ० ३३८ ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy