________________
सू० ११७] भूतचैतन्यवादः खसंवेदनप्रत्यक्षाधिगम्यः परलोकादिसम्बन्धित्वेनानुमेयश्च आत्मापरनामा विज्ञानोपादानहेतुरिति परैरभ्युपगमात् ।
तस्यातो विजातीयत्वे नोपादानभावः सर्वथा विजातीयस्योपादानत्वे वह्नर्जलाधुपादानभावप्रसङ्गात् तत्वचतुष्टयव्याघातः। सत्त्वादिना सजातीयत्वात्तस्योपादानभावपि अयमेव दोषः ।५ प्रमाणप्रसिद्धत्वाचात्मनस्तदुपादानत्वमेव विज्ञानत्योपपन्नम् । तथा हि-यद्यतोऽसाधारणलक्षणविशेषविशिष्टं तत्त्वतस्तत्वान्तरम्; यथा तेजसो वाय्वादिकम्, पृथिव्यावसाधारणलक्षयविशेषविशिष्टं च चैतन्य मिति । न चायमसिद्धो हेतुः; चैतन्यस्य जना(ज्ञान)दर्शनोपयोगलक्षणत्वात् , भूपयःपावकपवनानां धार-१०
रणद्रवोष्णतास्वभावानां तल्लक्षणाभावात् । न हि भूतानि ज्ञानदर्शनोपयोगलक्षणानि अस्मदाद्यनेकप्रतिपत्तृप्रत्यक्षत्वात् । यत्पुनस्तल्लक्षणं तन्नास्मदाद्यनेकप्रतिपत्तृप्रत्यक्षम् यथा चैतन्यम् , तथा च भूतानि, तस्मात्तथैवेति।
ननु ज्ञानाधुपयोगविशेषव्यतिरेकेणापरस्य तद्वतः प्रमाणतो-१५ ऽप्रतीतेः असिद्धमेवासाधारलक्षणविशेषविशिष्टत्वम् । तथाहि-न तावत्प्रत्यक्षेणासौ प्रतीयते । रूपादिवत्तत्स्वभावानवधारणात् । नाप्यनुमानेन; अस्य प्रामाण्याप्रसिद्धः। न च तद्भावावेदकं किञ्चिदनुमानमस्ति; इत्यसङ्गतम् ; प्रत्यक्षेणैवात्मनः प्रतीतेः 'सुख्यह
१ आदिपदेन पुण्यपाप । २ चिद्विवर्त्तत्वादित्यतः । ३ जैनः। ४ चैतन्यस्य । ५ अन्यथा । ६ प्रमेयत्ववस्तुत्वादि । ७ किञ्च। ८ स उपादानं यस्य तत् । ९ चैतन्यं धर्मी पृथिव्यादिभ्योऽर्थान्तरं भवतीति साध्यो धर्मः । ततोऽसाधारणलक्षणविशेषविशिष्टत्वात् । १० पृथिव्यादिभ्यः। ११ विसदृश । १२ पृथिव्यादिभ्यः । १३ भिन्नं । १४ का । १५ शानदर्शरूप एव उपयोगः। १६ अनेकसर्वशप्रत्यक्षेणास्मचैतन्येन व्यभिचारः। १७ अनेकप्रतिपत्तप्रत्यक्षत्वादित्युक्ते । १८ प्रत्यक्षत्वादित्युक्ते प्रत्यक्षेण। १९ असञ्चैतन्येन व्यभिचारः। २० दर्शन । २१ आत्मनः । २२ साधनम् । २३ इन्द्रियप्रत्यक्षेण । २४ किञ्च । २५ हेतुः।
1 "न हि भूतानि स्वसंवेदनलक्षणानि अस्मदाद्यनेकप्रतिपत्तृप्रत्यक्षत्वात् ।" ..
___अष्टसह० पृ० ६.४ । 2 "आत्मसद्भावे प्रमाणाभावात् ; तथाहि न प्रत्यक्षेणोपलभ्यते रूपादिवत्तत्व. भावानवधारणात् । नाप्यनुमानमस्त्यात्मप्रतिबद्धम् ।” प्रश० व्यो० पू० ३९१ ।
3 "अहमिति प्रत्यये तस्य प्रतिभासनात् , तथाच सुख्यहं दुःख्यहमिच्छावानहमिति प्रत्ययो दृष्टः ।"
प्रशं० व्यो० पृ० ३९१।