________________
१०९
सू० १।७] साकारज्ञानवादः त्वात् । कथं चार्थवदिन्द्रियाकारं नानुकुर्यादसौ तदुत्पत्तेरविशेपात् ? तदविशेषेप्यस्य कारणान्तरपरिहारेणार्थाकारानुकारित्वं पुत्रस्येव पित्राकारानुकरणमित्यदलङ्गतम् ; स्वोपादानमात्रानुकरणप्रसङ्गात् । विषयस्यालस्वनप्रत्ययतया खोपादानस्य च समनन्तरप्रत्ययतया प्रत्यासत्तिविशेषसट्टावात् उसयाकारानुकरणे-५ ऽर्थवदुपादानस्यापि विषयतापंत्तिरविशेषात् । तजन्मरूपाविशेषेप्रध्यवसायनियमात् प्रतिनियतार्थ नियामकत्वेऽर्थवडुपादानेप्यध्यवसायप्रलङ्गः, अन्यथोभयंत्राप्यसौ मा भूद्विशेषाभावातील तजन्मादित्रयसद्भावेप्यर्थप्रतिनियमः; कामलादुपहतचक्षुषः शुक्ले शङ्ख पीताकारज्ञानादुत्पन्नस्य तद्रूपस्य तदाकाराध्यवसायिनो १० विज्ञानस्य समनन्तरप्रत्यये प्रामाण्यप्रसङ्गात् । न चैववादिनो विज्ञानस्य स्वरूपे प्रमाणता घटते तत्र सारूप्याभावात् ।
किञ्च, ज्ञानगतान्नीलाद्याकारात् क्षणिकत्वाचौंकारः किं भिन्नः, अभिन्नो वा? भिन्नश्चेत् ; नीलाद्याकारस्याक्षणिकत्वप्रसङ्गस्तद्ध्यावृत्तिलक्षणत्वाचस्य । अथाभिन्नः; तर्हि ततोऽर्थस्य नीलत्वादि-१५
१ किञ्च ! तद्रूप्यनिषधं कुर्वन्ति । २ शानस्य । ३ अर्थलक्षणात्कारणादपरमिन्द्रियलक्षणम् । ४ बोधस्य । ५ कारण। ६ अव्यवहितकारण। ७ तदुत्पत्तिलक्षणसम्बन्ध । ८ अर्थपूर्वज्ञाने। ९ तज्जन्मतद्रूपविशेषाभावात् । १० अर्थोपादानाभ्यामुत्पत्तरविशेषात् । ११ अर्थोपादानाभ्यां । १२ निश्चय । १३ बोधस्य । १४ अर्थोपादानयोः। १५ तज्जन्मरूप। १६ किञ्च इदानीं सह दूषयति । १७ अर्थात्तदुत्पत्त्यादि । १८ बोधस्य । १९ दोष । २० पुरुषस्य । २१ किञ्च । साकारत्वेन शानस्य प्रामाण्यवादिनः । २२ निरंशत्वादि । २३ अत्रानुमाने घटादिवद् दृष्टान्तः । २४ नीलाकाराज ज्ञानात् ।
1 "न केवलं विषयबलाद् दृष्टेरुत्पत्तिरपि तु चक्षुरादिशक्तेश्च । विषयाकारानुकरणाद्दर्शनस्य तत्र विषयः प्रतिभासते, न पुनः करणम् तदाकाराननुकरणादिति चेत्तर्हि; तदर्थवत्करणमनुकर्तुमर्हति, न चार्थ विशेषाभावात् । दर्शनस्य कारणान्तरसद्भावेऽपि विषयाकारानुकारित्वमेव सुतस्येव पित्राकारानुकरणमित्यपि वार्तम् ; स्वोपादानमात्रानुकरणप्रसङ्गात् । विषयस्यालम्बनप्रत्ययतया खोपादानस्य च समनन्तरप्रत्ययतया प्रत्यासत्तिविशेषाद् दर्शनस्य उभयाकारानुकरणेप्यनुज्ञायमाने रूपादिवदुपादानस्थापि विषयतापत्तिः, अतिशयाभावात् । वर्णादेर्वा तद्वदविषयत्वप्रसङ्गात् ।"
___ अष्टश०, अष्टसह ० पृ० ११८ । 2 "दर्शनस्य तज्जन्मरूपाविशेषेऽपि तदध्यवसायनियमाद् बहिरर्थविषयत्वमित्यसारम् ; वर्णादाविव उपादानेऽपि अध्यवसायप्रसङ्गात् ।"
अष्टश०, अष्टसह० पृ० ११८ । प्र० क० मा० १०