________________
१०४
प्रमेयकमलमार्तण्डे प्रथमपरिक युक्तः, दर्पणादौ तथानुपलम्भात् । दीर्घस्वावतश्चै प्रवोधचेतसो जनकस्य जामशाचेतसो दूरत्वेनातीतत्वेन चानापि दूरातीता. दिव्यवहारानुपङ्गः स्यात् ।
किञ्च, अर्थादुपजायमानं ज्ञानं यथा तस्य नीलतामनुकरोति ५ तथा यदि जडतामपि तर्हि जडमेव तत् स्यादुत्तरार्थक्षणवत् । अथ जडतां नानुकरोति; कथं तस्या ग्रहणम् ? तद्ग्रहणे नीला. कारस्याप्यग्रहणम् अन्यथा तयोर्मेंदोऽनेकान्तो वा । नीलाकारग्रहणेपि च, अंगृहीता जडता कथं तस्येत्युच्येत? अन्यथा गृहीतस्य स्तम्भस्यागृहीतं त्रैलोक्य(क्यं )रूपं भवेत् । तथा चैकोपलम्भी १० नैकत्वसाधनम् । अथ नीलाकारवजडतापि प्रतीयते किन्त्वतदा
कारण ज्ञानेन, न; तर्हि नीलताप्यतदाँकारेणैवानेन प्रतीयताम्। तथाहि-यद्येन वात्मनोऽर्थान्तरभूतं प्रतीयते तत्तेनातदाकारेण यथा स्तम्भादेर्जाड्यम्, प्रतीयते च स्वात्मनोऽर्थान्तरभूतं नीला दिकमिति। किञ्च, नीलाकारमेव ज्ञानं जडतांप्रतिपद्यते, ज्ञानान्तर १५वा ? आद्यविकल्पे नीलाकारतां खात्मभूततया, जडतां त्वेन्यों
तज्जानातीत्यर्द्धरतीयन्यायानुसरणं ज्ञानस्य । अथ ज्ञानान्तरेण सा
१ पुरुषस्य । २ किञ्च । ३ शानस्य । ४ पुरुषस्य । ५ परिच्छित्तिः । ६ जडस्याग्रहणेपि नीलस्य ग्रहणं चेत् । ७ नीलजडयोः। ८ गृह्यमाणाऽगृह्यमाणधर्मा वेकस्यार्थस्यति च। ९ किञ्च । १० अगृहीतापि नीलस्य धर्मश्चेत्। ११ यतः। १२ ज्ञानम् । १३ किन्त्वनेकत्वसाधनम् । १४ विशेषे। १५ अजडाकारण। १६ निराकारेण। १७ अनीलाकारेण । १८ नीलादिकं धर्मी अतदाकारेण ज्ञानेन प्रतीयते इति साध्यो धर्मः। तेन स्वात्मनोऽर्थान्तरभूततया प्रतीयमानत्वात् । १९ शान रूपात् । २० कर्तृ । २१ नीलाकारतया। २२ अजडाकारतया। २३ अस्यात्म(अस्वात्म )भूततया चेत् ।
___ 1 "न चाकाराधायकस्य दूरातीतत्वात्तथा व्यवहारः इत्यभिधातव्यम् ; जाय. चेतसो दूरातीतत्वेन प्रबोधचेतसि तथा व्यवहारप्रसङ्गात् ।" न्यायकुमु० पृ० १६९ ।
2 “अथ नीलतां तत्तदाकारतया प्रतिपद्यते जडतां त्वतदाकारतया तदिदम जरतीयन्यायानुसरणम् ।"
न्यायकुमु० पृ० १६८ । "अर्ध जरत्याः कामयन्ते अर्ध नेति ।" पात० महाभाष्य ४।११७८ । "अर्थ मुखमात्रं वृद्धायाः कामयते नाङ्गानि सोऽयमर्धजरतीयन्यायः।"
ब्रह्मसू० शा० मा० रत्नप्रभा १।२।८ । 3 "अर्थेन सर्वात्मना तत्र स्वाकाराधाने शानस्य जडताप्रसक्तेः उत्तरार्थक्षणवत् ।”
शास्त्रवा० टी० पृ० १५९ पू० ।