SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ सू० ११७] साकारज्ञानवादः १०३ विम्बासम्भवात् । तथा हि-न विषयाकारधारिणी वुद्धिरमूर्तत्वादाकाशवत्, यत्तु विषयाकारधारि तन्मूः यथा दर्पणादि । न चासिद्धो हेतुः; तस्याः सकलवादिभिरमूर्त्तत्वाभ्युपगमात् । अन्यथा वाह्येन्द्रियप्रत्यक्षत्वप्रसङ्गो दर्पणादिवदेव । अतिसूक्ष्मत्वात्तदप्रत्यक्षत्वे तद्भतार्थप्रतिविम्वप्रत्यक्षतापि न स्यात् । मूर्तस्य५ चेन्द्रियादिद्वारेणैव संवेदनसम्भवात् । तदभावेऽसंविदितत्वप्रसङ्गश्च । सर्वथा परोक्षत्वाभ्युपगमे चॉस्या मीमांसकमतानुषङ्गः ॥छ॥ एतेन वाद्धोप्याकारवत्त्वेन ज्ञाने प्रामाण्यं प्रतिपादयन्प्रत्याख्यातः । प्रत्यक्षविरोधाच; प्रत्यक्षेण विषयाँकाररहितमेव ज्ञानं २० प्रतिपुरुषमहमहमिकया घटादिग्राहकमनुभूयते न पुनर्दर्पणादिवत्प्रतिविम्वाक्रान्तम् । विषयाकारधारित्वे , ज्ञानस्यार्थे दूरनिकटादिव्यवहाराभावप्रसङ्गः। न खलु स्वरूपे खतोऽभिन्नेऽनुभूयमाने सोस्ति, न चैवम् ; 'दूरे पर्वतो निकटे मदीयो वाहुः' इति व्यवहारस्याऽस्खेलद्रूपस्य प्रतीतः। ततस्तदन्यथानुपपत्तेनि-१५ राकारं तत् । न चाकाराधायकस्य दूरादितया तथा व्यवहारो १ हेतोः। २ पदार्थस्य। ३ किञ्च । ४ आलोकादि । ५ किञ्च । ६ बुद्धेविषयाकारधारित्वनिराकरणपरेण ग्रन्थेन । ७ योगाचारः। ८ सौत्रान्तिकः (१) । ९ पदार्थस्य । १० किञ्च । ११ सौत्रान्तिकः (१)। १२ स्वसंवेदनेन । १३ अर्थ । १४ पदार्थ। १५ वयं शानेन। १६ किञ्च । १७ दूरनिकटादिव्यवहारः। १८ अस्त्वेवमिति चेत् । १९ अव्यभिचरत् । २० प्रतिभासनात् । २१ साकारत्वे दूरनिकटादिव्यवहारो न घटते यतः। २२ समर्पकस्य पदार्थस्य । "स्वसंवित्तिः फलञ्चास्य ताद्रूप्यादर्थनिश्चयः । विषयाकार एवास्य प्रमाणं तेन मीयते ॥" प्रमाणसमु० १।१०। "अर्थसारूप्यमस्य प्रमाणम् ।" न्यायबि० १११९ । 2 "दूरासन्नादिभेदेन व्यक्ताव्यक्तं न युज्यते । तत्स्यादालोकभेदाच्चेत् तत्पिधानापिधानयोः । तुल्या दृष्टिरदृष्टिवा सूक्ष्मोंशस्तस्य कश्चन । आलोकेन न मन्देन दृश्यतेऽतो भिदा यदि ॥" प्रमाणवा० ३१४०८-९ । "स्वतोऽभिन्नस्य चाकारस्य ज्ञानग्राह्यत्वे अर्थे दूरातीतादिव्यवहारो न स्यात् ।" न्यायकुमु० पृ० १६९ ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy