________________
१०२
प्रमेयकमलमार्तण्डे [प्रथमपरि० कत्वव्यवस्थामिच्छता अनुभवसिद्धकर्तृत्वभोक्तृत्वाद्यनेकधर्माधारचिद्विवर्त्तस्याप्येकत्वमभ्युपगन्तव्यं तदविशेषात् । न चात्रैकत्वप्रतिभासे किञ्चिद्वाधकम् , यतो द्विचन्द्रादिप्रतिभालवन्मिथ्यात्वं स्यात् । स्वसंवेदनप्रसिद्धखपरप्रकाशरूपचिद्विवर्त्तव्यतिरेकेणान्य५चैतन्यस्य कदाचनाप्यप्रतीतेः।न चोपदेशमात्रात्प्रेक्षावतां निर्वाधबोधाधिरूढोऽर्थोऽन्यथा प्रतिभासमानोऽन्यथापि कल्पयितुं युक्तोऽतिप्रसङ्गात् । चैतन्यस्य च स्वपरप्रकाशात्मकत्वे किं वुद्धिसाध्यं येनासौ कल्प्यते ?
वुद्धश्चाचेतनत्वे विषयव्यवस्थापकत्वं न स्यात् । ओंकारवत्त्वा१० त्तत्त्वमित्यप्ययुक्तम् ; अचेतनस्याकारत्वे (रवत्त्वे)प्यर्थव्यवस्थापकत्वासम्भवात् , अन्यथाऽऽदर्शादेरपि तत्प्रसङ्गाबुद्धिरूपतानुषङ्गः। अन्तःकरणत्व-पुरुषोपभोगप्रत्यासन्नहेतुत्वलक्षणविशेषोपि मनोऽ. शादिनानैकान्तिकत्वान्न वुद्धलक्षणम् । यदि च अयमेकान्तः'अन्तःकरणमन्तरेणार्थमात्मा न प्रत्येति' इति, कथं तर्हि अन्तः१५करणप्रत्यक्षता ? अन्यान्तःकरणविम्वादेवेति चेत्, अनवस्था।
अन्यान्तःकरणबिम्वमन्तरेणान्तःकरणप्रत्यक्षतायां च अर्थप्रत्यक्षतापि तथैवास्त्वलं तत्परिकल्पनया । अन्तःकरणप्रत्यक्षताभावे च कथं तद्गतार्थविम्वग्रहणम् ? न ह्यादर्शाग्रहणे तद्गतार्थप्रतिविम्बग्रहणं दृष्टम्। २० विषयाकारधारित्वं च बुद्धरनुपपन्नम् , मूर्तस्यामूर्त प्रति
१ परेण । २ आत्मनः। ३ बोधस्य । ४ प्रमाण। ५ आगमात्। ६ बुद्धिलक्षण। ७ एकत्वेन। ८ स्वसंवेदनप्रत्यक्ष । ९ बुद्धिलक्षणः । १० एकत्वेन प्रतिभासमानः। ११ बुद्धिचैतन्यमिति द्वयरूपतया । १२ अन्यथा। १३ केन कारणेन । १४ किञ्च । १५ अर्थाकारवत्वात् । १६ जलादेः। १७ मध्ये (?)। १८ अनुभव । १९ कारणं बुद्धिरूपम् । २० व्यस्तलक्षण । २१ अदृष्ट । २२ अतिव्याप्तेः। २३ अन्तःकरणत्वं बुद्धेर्लक्षणमित्युक्ते मनसा व्यभिचारः । कथं मनोह्यन्तःकरणं भवति न च तस्य बुद्धिरूपता पुरुषोपभोगप्रत्यासन्नहेतुत्वं बुद्धेर्लक्षणमित्युक्ते चाक्षादिना व्यभिचारस्तथाहि-पुरुषो. पभोगप्रत्यासन्नहेतुरिन्द्रियं भवति न च तस्य बुद्धिरूपता । २४ किञ्च । २५ बुद्धिम् । २६ बुद्धि । २७ आकार । २८ बुद्धि । २९ बुद्धि। ३० अन्तःकरणगतार्थ । 1 "न चास्या वास्तवचैतन्याभावे विषयव्यवस्थापनशक्तिर्युक्ता।" ।
न्यायकुमु० पृ० १९३ । स्या० रत्ना० पृ० २३८ । 2 "न विषयाकारधारि शानममूर्त्तत्वात् , यदमूर्त तद् विषयाकारधारि न भवति यथा आकाशम् , अमूर्तञ्च शानमिति । तद्धारित्वे वा अमूर्त्तत्वमस्य विरुध्यते ।"
न्यायकुमु० पृ० १९३ । स्था० रत्ना० पृ० २३८ ।