________________
सू० १1७ ]
अचेतनज्ञानवादः
१०१
नावधारयत्ययो गोलकादिवाग्नेः । न चात्रापि भेदो नास्तीत्यभिधीतव्यम्; उभयत्र रूपस्पर्शयोर्भेदप्रतीतेः । अयोगोलकस्य हि वृत्तसन्निवेशः कठिनस्पर्शश्चान्योऽग्नि (ग्ने)र्भासुररूपोष्णस्पर्शाभ्यां प्रमाणतः प्रतीयते । ततो यथात्राऽन्योऽन्यानुप्रवेशलक्षणसंसर्गाद्विभागप्रतिपत्त्यभावस्तथा प्रकृते पीत्यप्यसाम्प्रतम् ; वह्नययोगोल - ५ कयोरप्यभेदात् । अयोगोलकद्रव्यं हि पूर्वाकारपरित्यागेनाग्निसनिधानाद्विशिष्टरूपस्पर्शपर्यायाधारमेकमेवोत्पन्नमनुभूयते आमाकारपरित्यागेन पाकाकाराधारघटद्रव्यवत् । कथं तर्हि तैस्योत्तरकालं तत्पर्यायाधारताया विनाशप्रतीतिः ? इत्यप्यचोद्यम् उत्पत्त्यनन्तरमेव तद्विनाशाप्रतीतेः । किञ्चिद्ध्योपाधिकं वस्तुरूप- १० मुपध्यपायनन्तरमेवापैति, यथा जपापुष्पसन्निधानोपनीत स्फटिकरक्तिमा । किञ्चित्तु कौन्तरे, मनोज्ञाङ्गनादिविषयोपनीतात्मसुखादिवत् । सकलभावानां स्वतोऽन्यतश्च निवर्त्तनप्रतीतेः । तन्नाम्ययोगोलकयोर्भेदः ।
१४
3
daiस्मिन् स्वपरप्रकाशात्मपर्यायेऽनुभूयमाने नौन्य- १५ सद्भावोऽभ्युपगन्तव्यः, अन्यथा न केचिदेकत्वव्यवस्था स्यात् । सकलव्यवहारोच्छेदप्रसङ्गञ्च; अनिष्टार्थ परिहारेणेष्ठे वस्तुन्येकस्मिन्ननुभूयमानेष्यन्य सद्भावाशङ्कया क्वचित्प्रवृत्त्याद्यभावात् । ततोऽबाधितैकत्वप्रतिभासादपरपरिहारेणावभासमाने
वस्तुन्ये
39
१ निश्चिनोति । २ अयोगोलकाइयोः । ३ जैनेन भवता । ४ अयोगोलकारयोः । ५ वर्तुलाकारः । ६ प्रत्यक्षात् । ७ अयोगोलकाइयोः । ८ मेद ! ९ बुद्धिचैतन्ये (तन्ययोः) । १० कृष्णत्वादिलक्षण । ११ अयोगोलस्य । १२ करण । १३ विनाश | १४ अपगच्छति । १५ उपाध्यपाये सति । १६ अपैति । १७ स्त्रक्चन्दनादि । १८ पदार्थ । १९ परिणमन । २० चूतफलादिवत् । २१ अयोगोलकवत् । २२ बुद्धिचैतन्ये (तन्ययोः) । २३ स्वयम् । २४ चैतन्य । २५ परेण । २६ विषये । २७ कथम् । २८ अहिकण्टकादि । २९ वनितादौ । ३० अहिकण्टकादि । ३१ विषये । ३२ निवृत्ति ।
अनुष्णाशीतो घटः शीताभिरद्भिः संसृष्टः शीतो भवति, अग्निना संयुक्त उष्णो भवति, एवं महदादिलिङ्गमचेतनमपि भूत्वा चेतनावद् भवति । "
माठरवृत्ति, गौडपादभा० ।
1 " वह योगोलकयोरपि अन्योन्यं भेदाभावात् । अयोगोलकद्रव्यं हि पूर्वाकार'परित्यागेन अग्निसन्निधानादू विशिष्टरूपस्पर्शपर्यायाधारमेकमेवोत्पन्नमनुभूयते आमाकारपरित्यागेन पाकाकाराधारघटद्रव्यवत् ।”
न्यायकुमु० पृ० १९३ । स्या० रत्ना० पृ० २३७॥