________________
प्रमेयकमलमार्तण्डे [प्रथमपरि० व्यक्तापेक्षया परिणाम प्रधानं न शेत्यपेक्षया सर्वदा स्थास्नुत्वादित्यभिधातु आत्मापि तथास्तु सर्वथा विशेषाभावात् , अपरिणामिनोऽर्थक्रियाकारित्वासम्भवेनाग्रेऽसत्त्वप्रतिपादनाञ्च ।
खसंवेदनप्रत्यक्षाविषयत्वे चास्याँः प्रतिनियतार्थव्यवस्थापकत्वं ५न स्यात् । तद्यवस्थापकत्वं हि तदनुभवनम् , तत्कथं वुद्धरप्रत्यक्षत्वे घटेत? आत्मान्तरवुद्धितोपि तत्प्रसङ्गात्, न चैवम् । ततो बुद्धिः खव्यवसायात्मिका कारणान्तरनिरपेक्षतयाऽर्थव्यवस्थापकत्वात् , यत्पुनः स्वव्यवसायात्मकं न भवति न तत्त
थाऽर्थव्यवस्थापकं यथाऽऽदर्शादीति । अर्थव्यवस्थितौ तस्याः १० पुरुषभोगांपेक्षत्वात् “बुद्ध्यध्यवसितमर्थ पुरुषश्चेतयते" [ ]
इत्यभिधानात् । ततोऽसिद्धो हेतुरित्यपि श्रंद्धामात्रम् ; भेदेनानयो. रनुपलम्भात् । एकमेव ह्यनुभवसिद्धं संविद्रूपं हर्पविषादाद्यनेकाकारं विपयव्यवस्थापकमनुभूयते, तस्यैवैते 'चैतन्यं बुद्धिरध्यव
सायो ज्ञानम्' इति पर्यायाः। न च शब्दभेदमात्राद्वास्तवोऽर्थभे१५दोऽतिप्रैसङ्गोत्।
संसर्गविशेषवशाद्विप्रैलब्धो वुद्धिचैतन्ययोः सन्तमपि भेदं
१ महदादि, द्वितीयपक्षे सुखादि। २ सूक्ष्मस्वभावा द्वितीयपक्षे साम्यावस्था शक्तिः । ३ परेण । ४ व्यक्त्यपेक्षया परिणाम्यस्तु । ५ व्यक्त्यपेक्षया परिणाम्यस्तु। ६ किञ्च । ७ बुद्धेः । ८ अन्यथा । ९ पुरुषान्तर । १० स्वस्य । ११ व्यक्तिलक्षणाया बुद्धेः बुद्धिलक्षणात्कारणादपरं कारणान्तरमिन्द्रियम् । १२ कारणनिरपेक्षतया। १३ अनुभवः स एव कारणम् । १४ बुद्धिप्रतिबिम्बितम् । १५ अनुभवति । १६ कारणान्तरसापेक्षतया। १७ वुद्धः । १८ भो साङ्ख्य। १९ बुद्धिपुरुषयोः । २० बुध्यनुभवयोः। २१ अन्यथा। २२ इन्द्रः शक इत्यादौ स स्यात् । २३ सम्बन्ध । २४ वन्चितो नरः। २५ चैतन्यं पुरुषस्य रूपम् । २६ विद्यमानम् । 1 "एकमेवेदं संविद्रूपं हर्षविषादाद्यनेकाकारविवर्त्त पश्यामः।"
__ न्यायमं० पृ० ७४ । न्यायकुमु० पृ० १९३ । "बुद्धिरुपलब्धिनिमित्यनन्तरम् ।न्यायसू० ११११५ प्रश० भा० पृ०१७१।
"बुद्धिरध्यवसायो हि संवित्संवेदनं तथा । संवित्तिश्चेतना चेति सर्व चैतन्यवाचकम् ॥” तत्त्वसं० का० ३०३॥
सन्मति० टी० पृ० ३०० । स्या० रत्ना० पृ० २३८ । 2 "तसात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।
गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः ॥ २० ॥ यसाच्चेतनस्वभावः पुरुषः तस्मात् तत्संयोगादचेतनं महदादि लिङ्गम् अध्यवसायाभिमानसङ्कल्पालोचनादिषु वृत्तिषु चेतनावत् प्रवर्तते । को दृष्टान्तः ? तद्यथा