SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ सू० ११७] अचेतनज्ञानवादः ९९ न द्रष्टा यथा घटादिः, द्रष्टा चात्मा तस्मातद्विवर्त्तवानिति । प्रधानस्य ज्ञानवत्त्वे तु तस्यैव द्रष्टत्वानुषङ्गादात्मकल्पनानर्थक्यम् । 'चेतनोऽहम्' इत्यनुभवाच्चैतन्यस्वभावतावच्चात्मनो 'ज्ञाताऽहम्' इत्यनुभवाद् ज्ञानस्वभावताप्यस्तु विशेषाभावात् । ज्ञानसंसर्गात 'ज्ञाताऽहम्' इत्यात्मनि प्रतिभासो न पुननिस्वभावत्वादित्यप्य-५ समीक्षिताभिधानम् ; चैतन्यादिखभावस्याप्यभावप्रसङ्गात् । चैतज्यसंसर्गाद्धि चेतनो भोकृत्वसंसर्गाद्भोक्तौदासीन्यलंल दुदासीनः शुद्धिसंसर्गाच्छुद्धो न तु स्वभावतः । प्रत्यक्षाभिनाजवाधोभयत्र । न खलु ज्ञानस्वभावताविकलोऽयं कदाचनाप्यर्नुभूयते, तद्विकलस्यानुभवविरोधात् । आत्मनो ज्ञानस्वभावत्वेऽनित्यत्वापत्तिः प्रधानेपि समाना । तत्परिणामस्य व्यक्तस्यानित्यत्वोपगमात् अदोषे तु, आत्मपरिणामस्थापि ज्ञानविशेषादेरनित्यत्वे को दोषः ? तस्यात्मनः कथञ्चिदव्यतिरेके भङ्गुरत्वप्रसङ्गः प्रधानेपि समानः। व्यक्ताव्यक्तयोरव्यतिरेकेपि व्यक्तमेवानित्यं परिणामत्वान्न पुनरव्यक्तं परिणामित्वा-१५ दित्यभ्युपगमे, अत एव ज्ञानात्मनोरव्यतिरेकेपि ज्ञानमेवानित्यमस्तु विशेषाभावात् । आत्मनोऽपरिणामित्वे तु प्रधानेपि तदस्तु १ ज्ञान । २ आशङ्कायाम् । ३ चैतन्यस्वभावतया अनुभवः, ज्ञानस्वभावताया अनुभव इत्यविशेषः । ४ कथं तथा हि। ५ नैर्मल्य । ६ आत्मनश्चैतन्यादिस्वभावाभावे शानस्वभावाभावे च। ७ आत्मा। ८ आत्मा आत्मना। ९ ज्ञानमनित्यमिति वचनात् ज्ञानस्वरूपवत् । १० महदादेः। ११ ज्ञानादेः। १२ प्रधानस्यानित्यत्वापत्तिलक्षणोऽदोषः। १३ का । १४ अभेदे। १५ आत्मनः। १६ विनश्वरत्व। १७ महदादेः। १८ प्रधानस्य । 1"ननु ज्ञानसंसर्गाज्ज्ञाताऽहमित्यात्मनि प्रतिभासो न पुननिस्वभावत्वादिति चेत्, तदपि न्यायबाह्यम् ; चैतन्यादिस्वभावस्याप्येवमभावप्रसक्तेः । चैतन्यसंसर्गाद्धि चेतनो भोक्तृत्वसंसर्गाद् भोक्ता औदासीन्यसंसर्गादुदासीनः शुद्धिसंसर्गात् शुद्धो न तु स्वभावादित्यपि वक्तुं शक्यत एव।" स्या० रत्ना० पृ. २३५ । 2 "हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतत्रं व्यक्तं विपरीतमत्यक्तम् ॥" सांख्यका० १०॥ "प्रधानस्य चाऽनित्याद् व्यक्तादनान्तरभूतस्य नित्यतां प्रतीयन् पुरुषस्यापि ज्ञानादशाश्वतादनान्तरभूतस्य नित्यत्वमुपैतु सर्वथा विशेषाभावात् ।" आप्तप० पृ० ४१ । "नचात्मनः अनित्यज्ञानपरिणामात्मके अनित्यत्वापत्तिः प्रधानेऽपि तत्प्रसङ्गात् । व्यक्ताऽव्यक्तयोरमदेऽपि व्यक्तमेवाऽनित्यं परिणामत्वात् नत्वव्यक्तं परिणामित्वादित्यन्यत्रापि समानम् ।" न्यायकुमु० पृ० १९१ । स्या० रत्ना० पृ० २३५१
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy