SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ ९८ प्रमेयकमलमार्तण्डे [प्रथमपरि० वा? प्रथमपक्षे कथं सकलशून्यता वास्तवस्य तत्सद्भावावेदकप्रमाणस्य सद्भावात् ? द्वितीयपक्षे तु कथं तस्याः सिद्धिः प्रमेयसिद्धेः प्रमाणसिद्धिनिवन्धनत्वात् ? तदेवं सुनिश्चितासम्भवद्वाधकप्रमाणत्वात् प्रतीतिसिद्धमर्थव्यवसायात्मकत्वं ज्ञानस्याभ्युप५ गन्तव्यम् , अन्यथाऽप्रामाणिकत्वप्रसङ्गः स्यात् ॥ छ ॥ अथेदानीं प्राक् प्रतिज्ञातं स्वव्यवसायात्मकत्वं ज्ञानविशेषणं व्याचिंख्यासुः स्वोन्मुखतयेत्याद्याहखोन्मुखतया प्रतिभासनं स्वस्य व्यवसायः ॥६॥ स्वस्य विज्ञानस्वरूपस्योन्मुखतोल्लेखिता तया इतीत्थंभावे भी। १० प्रतिभासनं संवेदनमनुभवनं स्वस्य प्रमाणत्वेनाभिप्रेतविज्ञानस्वरूपस्य सम्बन्धी व्यवसायः। स्वव्यवसायसमर्थनार्थमर्थव्यवसायं स्वपरप्रसिद्धम् 'अर्थस्य इत्यादिना दृष्टान्तीकरोति । अर्थस्येव तदुन्मुखतया ॥७॥ १५ इवशब्दो यथार्थे । यथाऽर्थस्य घटादेस्तदुन्मुखतया स्वोल्लेखि तया प्रतिभासन व्यवसायः तथा ज्ञानस्यापीति । __ स्यान्मतम्-न ज्ञानं स्वव्यवसायात्मकमचेतनत्वाद् घटादिवत्। तंदचेतनं प्रधानविवर्त्तत्वात्तद्वत् । यत्तु चेतनं तन्न प्रधानविवर्तः, यथात्मा; इत्यप्यसङ्गतम् । तस्यात्मविवर्त्तत्वेन प्रधानविवर्त्तत्वा२० सिद्धेः; तथाहि-ज्ञानविवर्त्तवानात्मा इष्टत्वात् । यस्तु न तथा स १ पूर्वोक्तप्रकारेण ज्ञानस्यार्थव्यवसायात्मकत्वे समर्थिते सति । २ व्याख्यातुमिच्छुः । ३ ग्राहकता। ४ तृतीया । ५ वादिप्रतिवादिप्रसिद्धम् । ६ अर्थ । ७ तव साङ्ख्यस्य । ८ ज्ञानम् । ९ ज्ञानस्य । १० पर्यायत्वेन । ११ जैनानुमानम् । १२ चेतयितृत्वात् । च्यायभा० ४।२।३०। प्रश० व्योमवती पृ० ५३२ । अष्टसह० पृ० ११५ । सन्मति० टी० ४५५ । स्या० म० का० १७ । रत्नाकरावता० पृ० ३२ । 1 "प्रकृतेर्महान् ततोऽहङ्कारः...।" सांख्यका० २२ । "तस्याः प्रकृतेर्महान् उत्पद्यते प्रथमः कश्चित् । महान् बुद्धिः मतिः प्रज्ञा संवित्तिः ख्यातिः चितिः स्मृतिरासुरी हरिः हरः हिरण्यगर्भ इति पर्यायाः।" माठरवृत्ति, गौडपादभा० २२ । सांख्यसं० पृ० ६ । 2 "तथापरिणामवानात्मा दृष्ट (ष्ट) त्वात् । यस्तु शानपरिणामवान्न भवति नासो द्रष्टा यथा लोष्टादिः, द्रष्टा चात्मा तस्माज्ज्ञानपरिणामवानिति।" स्या. रत्ना० पृ०२३४।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy