________________
सू० ११५ ]
शून्याद्वैतवादः
इत्यभिधानात् । तत्कथं तद्दृष्टान्तावष्टम्भेन क्रमेणाप्येकस्यानेकाकारव्यापित्वं साध्येते ? तदप्यसमीचीनम् ; एवैमतिसूक्ष्मेकिया विचारयतो साध्यमिकस्य सकलशून्यतानुषङ्गात् । तथा हि-नीले प्रवृतं ज्ञानं पीतादौ न प्रवर्त्तते इति पीतादेः सन्तानान्तरवद्भावः । पीतादौ च प्रवृत्तं तन्नीले न प्रवर्त्तते ५ इत्यस्याप्यभावस्तद्वत् । नीलकुवलयसूक्ष्मांशे च प्रवृत्तिमज् ज्ञानं नेत्रांशनिरीक्षणे क्षममिति तदंशानामप्यभावः । संविदितांशस्य चावैशिष्टस्य स्वयमनंशस्याप्रतिभासनात्सर्वाभावः । नीलकुबलयादिसंवेदनस्य स्वयमनुभवात्संत्त्वे च अन्यैरनुर्भवात्सन्तानान्तराणामपि तदस्तु । अथान्यैरनुभूयमानसंवेदनस्य सद्भावासिद्धेस्तेषा १० मभावः, तर्हि तन्निषेधासिद्धेस्तेषां सद्भावः किन्न स्यात् ? अथ तत्संवेदनस्य सद्भावासिद्धिरेवाभवसिद्धिः नन्वेवं तन्निषेधासिद्धिरेव तत्सद्भावसिद्धिरस्तु । भवाभावाभ्यां परसंवेदन सन्देहे चैकान्ततः सन्तानान्तरप्रतिषेधासिद्धेः । कथं च ग्रामारामादिप्रतिभासे प्रतीतिभूधरशिखरारूढे सकलशून्यताभ्युपगमः प्रेक्षा- १५ वतां युक्तः प्रतीतिवाधनात् ? दृष्टहाने रष्टकल्पनायाश्चानुपङ्गात् । किञ्च, अखिलेशून्यतायाः प्रमाणतः प्रसिद्धिः, प्रमाणमन्तरेण
१७.
९७
१ बोधस्य । २ भवता जैनेन । ३ चित्रकज्ञानस्य नानात्वसमर्थनप्रकारेण । ४ ज्ञानेन । ५ उद्धृतस्य । ६ नीलकुवलयस्य । ७ चित्र । ८ स्वेनैव । ९ नीलकुवलयस्य । १० सन्तानान्तरैः । ११ स्वयम् । १२ भो माध्यमिक । १३ सन्तानान्तरैः । १४ स्वयम् । १५ नीलकुवलयसंवेदनवादिनं प्रति । १६ साधकप्रमाणाभावात् । १७ बाधकप्रमाणाभावात् । १८ भो माध्यमिक । १९ अन्यैरनुभूयमानसंवेदनस्य । २० माध्यमिको ब्रूते - अन्यसंवेदनसद्भावे साधकं प्रमाण नोपन्यस्तं भवद्भिः । अस्माभिश्च बाधकं प्रमाणं नोपन्यस्तमिति परसंवेदनसन्देहः ( इत्युक्ते जैन: प्राह ) । २१ ग्रामादि । २२ सकलशून्यत्वस्य ।
1 “नन्वेवं नीलवेदनस्यापि प्रतिपरमाणुभेदात् नीलाणुसंवेदनैः परस्परं भिन्नैर्भवितव्यं तत्र एकनीलपरमाणुसंवेदनस्याप्येवं वेद्यवेदक संविदाकार भेदात् त्रितयेन भवि. तव्यम् । वेद्याकारादिसंवेदनत्रयस्यापि प्रत्येकम परस्व वेद्यादि संवेदनत्रयेण इति परापरवेदनत्रयकल्पनादनवस्थानान्न क्वचिदेकवेदनसिद्धिः संविदद्वैतविद्विषाम् । ”
अष्टसह ० पृ० ७७ । न्यायकुमु० पृ० १३४ ।
2 “प्रमाणानुपपत्त्युपपत्तिभ्याम् । न्यायसू० ४ | २|३०| " एवं च सति सर्वं नास्तीति नोपपद्यते । कस्मात् ? प्रमाणानुपपत्त्युपपत्तिभ्याम्, यदि सर्व नास्तीति प्रमाणमुपपद्यते; ‘सर्वं नास्ति' इत्येतद्वयाहन्यते । अथ प्रमाणं नोपपद्यते; सर्वं नास्तीत्यस्य कथं सिद्धि: ? अथ प्रमाणमन्तरेण सिद्धिः; सर्वमस्ति इत्यस्य कथन्न सिद्धि: ?” प्र० क० मा० ९