SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ ९६ प्रमेयकसलमार्तण्डे प्रथमपरि० मार्गोपदेशोणि व्यों विनेयाऽसत्त्वात् । नापि ततः कश्चित्लौगती गतिं गन्तुमर्हति । युगतसत्ताकालेऽन्यस्यानुत्पत्तेस्तत्कालश्चात्यन्तिक इति । बुध्छन्तरपरिहारेण विवक्षितवुदैवानुभवश्वालिद्धः नीलादीनां बुधन्तरेणाप्यनुभवात् । ज्ञानरूपत्वात्तत्सिद्धौ चान्यो५न्याश्रयः-सिद्धे हि ज्ञानरूपत्वे नीलादीनां वुच्छन्तरपारिहारेण विवक्षितवुद्ध्यैवानुभवः सिद्ध्येत्, तत्सिद्धौ च ज्ञानरूपत्वमिति। मेदेन विवेचनाभावमात्रमप्यसिद्धम् ; वहिरन्तर्देशसम्वन्धित्वेन नीलतज्ज्ञानयोर्विवेचनप्रतिद्धेः । एकस्याक्रमेणं नीलाद्यनेका कारव्यापित्ववत् क्रमेणाप्यनेकसुखाद्याकारव्यायित्वसिद्धः सिद्धः १० कथञ्चिदक्षणिको नीलाद्यनेकार्थव्यवस्थापक प्रमातेत्यद्वैताय दत्तो जलाञ्जलिः॥ छ॥ नर्नु चाक्रमेणाप्येकस्यानेकाकारव्यापित्वं नेष्यते। "किं स्यात्सा चित्रतैकस्यां न स्याचस्या मतावपि । यदीदं स्वयमर्थेभ्यो रोचते तत्र के वयम् ॥" [प्रमाणवा० ३।२१०] - १ अन्योत्पत्तिरहिता (१) । २ संसारिणामेवोत्पत्तिरहितः (१) । ३ किञ्च । ४ एकस्य बोधस्य । ५ चित्राद्वैतवादिनः। ६ युगपत् । ७ ग्राहकः। ८ पुरुषः। ९ जैन प्रति माध्यमिको ब्रूते। १० भावस्य । ११ परेण मया माध्यमिकेन । १२ मम दूषणं किं स्यात्। १३ चित्रत्वेनाभिप्रेतायां मतौ एकस्यां सा चित्रता न स्यात्तदा किं स्यान्मम दूषणम् । १४ प्रसिद्धा। १५ चित्रत्वेनाभिप्रेतायां । १६ बुद्धौ। १७ चित्रत्वम् । १८ ज्ञानेभ्यः । 1“अशक्यविवेचनत्वं साधनमसिद्धमुक्तम्-नीलतवेदनयोः अशक्यविवेचनत्वासिद्धेः, अन्तर्बहिर्देशतया विवेकेन प्रतीतेः।" अष्टसह० पृ० २५४ । 2 "अत्र देवेन्द्रव्याख्या यदि नामैकस्यां मतौ न सा चित्रता भावतः स्यात् । किं स्यात् को दोषः स्यात् । तथा च भावतश्चित्रया मत्या भावा अपि चित्रा सिद्ध्यन्ति" तद्वदेव च सत्या भविष्यन्तीति प्रष्टुरभिप्रायः । शास्त्रकार आह-न स्यात्तस्यां मतावपि इति । व्याहतनेतत्-एका चित्रा च इति । एकत्वे हि सत्यनानारूपापि वस्तुतो नानाकारतया प्रत्यवभासते न पुनर्भावतस्ते तस्य आकाराः सन्तीति बलादेष्टव्यम् । एकत्वहानिप्रसंगात् । नहि नानात्वैकत्वयोः स्थितेरन्यः कश्चिदाश्रयोऽन्यत्र भाविकाम्यामाकारमेदाभेदाभ्याम् । तत्र यदि वुद्धिर्भावतो नानाकारैका चेष्यते तदा सकलं विश्वमप्येकं द्रव्यं स्यात् , तथाच सहोत्पत्त्यादिदोषः । तस्मान्नैकाऽनेकाकारा । किन्तु यदीदं स्वयमर्थानां रोचते अतद्रूपाणामपि सतां यदेतत्ताद्रूप्येण प्रख्यानं तदेतद्वस्तुत एव स्थितं तत्त्वमिति । तत्र के वयं निषेद्धारः ? एवमस्तु इत्यनुमन्यत इति ।" स्था० रत्ना० पृ० १८०।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy