SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ सू० ११५] चित्राद्वैतवादः एतेन "चित्रप्रतिभासाप्येकैव वुद्धिर्वाह्यचित्रविलक्षणत्वात् , शक्यविवेचनं हि वाह्य चित्रमशस्यविवेचनास्तु वुद्धेर्नीलादय आकाराः” इत्यादिना चित्राद्वैतमप्युपवर्णयनपाकृतः, अशक्यविवेचनत्वस्यासिद्धः । तद्धि बुद्धरसिंन्चत्वं वा, सहोत्पन्नानां नीलादीनां बुद्ध्यन्तरपरिहारेण विवक्षितवुच्चवानुभवो वा, भेदेन ५ विवेचनामावामात्र वा प्रकारान्तरासम्भवात् ? तापक्षे साध्यसभरे हेतु, तथाहि-यदुक्तं भवति-'बुद्धेमिन्ना नीलायत्ततोऽभिन्नत्वात् तदेवोक्तं भवति अशक्यविवेचनत्वात्' इति । द्विती:यपक्षेप्यनैकान्तिको हेतुः; सचराचरस्य जगतः सुगतज्ञानेन सहोत्पन्नस्य वुध्यन्तरपरिहारेण तज्ज्ञानस्यैव ग्राह्यस्य तेन सहै- १० कत्वाभावात् । एकत्वे वा संसारी सुगतः संसारिणो वा सर्वे सुगता भवेयुः, संसारेतररूपता चैकस्य ब्रह्मवादं समर्थयते । अथ सुगतसत्ताकालेऽन्यस्योत्पत्तिरेव नेष्यते तत्कथमयं दोषः? नन्वेवं "प्रमाणभूताय" [प्रमाणसमु० ११] इत्यादिना केनौसौ स्तूयते ? कथं चापराधीनोऽसौ येनोच्यते "तिष्ठन्त्येव पैराधीना येषां च महती कृपा प्रमाणवा० २।१९९] इत्यादि । न खलु बन्ध्यासुताधीनः कश्चिद्भवितुमर्हति : १ ज्ञानाद्वैतनिराकरणपरेण ग्रन्थेन । २ नानाप्रकार। ३ पूर्ववादे ज्ञानगतानां नीलाद्याकाराणां भ्रान्तत्वम् । अत्र (चित्राद्वैतवादे) ज्ञानगताकाराणां सत्यत्वम् । ४ विसदृश। ५ असिद्धो हेतुरित्युक्ते सत्याह । ६ घटपटस्तम्भादि । ७ इयं बुद्धिरमी नीलादय आकारा इति विभागः कर्तुं न शक्यते। ८ योगाचारः। ९ नीलादीनाम् । १० बुद्ध्या सह प्रादुर्भूतानाम् । ११ स्वरूपम्। १२ साध्येन समं हेतुं दर्शयति । १३ ताध्यमेवोक्तं भवति । १४ साध्यमेवोक्तं भवति । १५ नान्यज्ञानस्य । १६ जगदभिन्नत्वात् । १७ सुगताभिन्नत्वात्सुगतस्वरूपवत् । १८ असंसार । १९ सुगतस्य । २० परेण मया। २१ पुरुषेण । २२ भवता । २३ सुगताः। २४ (निर्वाणोपि(णेऽपि ) परप्राप्तेः (परे प्राप्ते) कृपाद्रीकृतचेतस इत्यस्योत्तरमर्द्ध ज्ञेयम् ) । २५ ना । 1 "किमिदमशक्यविवेचनत्वं नाम-ज्ञानाभिन्नत्वम् , सहोत्पन्नानां नीलादीनां शानान्तरपरिहारेण तज्ज्ञानेनैवानुभवः, भेदेन विवेचनाभावमात्रं वा?" न्यायकुमु० पृ० १२७ । "अकल्पकल्पासङ्ख्येयभावनापरिवद्धिताः। तिष्ठन्त्येव पराधीना येषां तु महती कृपा ॥" अभिसमयालंकारालोक पृ० १३४ । "तदुक्तम्-निर्वाणेऽपि परे प्राप्ते कृपार्टीकृतचेतसाम् । तिष्ठन्त्येव पराधीना येषां तु महती कृपा ॥"न्यायकुमु० पृ० ५।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy