________________
९४
प्रमेयकमलमार्तण्डे [प्रथमपरि० सद्भावाद्युक्तमसत्प्रतिभासनम्, न पुनः कादौ; तत्र तद्विपरीताद्वैतप्रसाधकप्रमाणस्य कस्यचिदसम्भवेनाऽवाधाकत्वात् । प्रतिपादितश्च वाध्यबाधकभावो ब्रह्माद्वैतविचारे तदलमतिप्रसङ्गेर्ने ।
अद्वैतप्रसाधकमाणसद्भावे , द्वैतापत्तितोनाद्वैतं भवेत् । प्रमाणा५भावे चाद्वैताप्रसिद्धिः प्रमेयप्रसिद्धेः प्रमाणसिद्धिनिवन्धनत्वात् ।
किचाद्वैतमित्यत्र प्रसज्यप्रतिषेधः, पर्युदासो वा ? प्रसज्यपक्षे नाद्वैतसिद्धिः। प्रतिषेधमात्रपर्यवसितत्वात्तस्य । प्रधानोपसर्जनभावेनाङ्गाङ्गिभावकल्पनायामपि द्वैतसङ्गः । पर्युदासपक्षेपि द्वैत
प्रसक्तिरेव प्रमाणप्रतिपन्नस्य द्वैतलक्षणवस्तुनः प्रतिषेधेनाऽद्वैत१० प्रसिद्धरभ्युपगमात् । द्वैतादद्वैतस्य व्यतिरेके , द्वैतानुषङ्ग
एव । अव्यतिरेकेपि द्वैतप्रसक्तिरेव भिन्नादभिन्नस्याभेदे(द)विरोधात् ॥ छ ।
१ एकत्व। २ क देः। ३ जैनेन मया। ४ बाध्यबाधकभावसमर्थनेन। ५ किंच। ६ प्रमाणमेकमद्वैतमेकं चेति द्वैतापत्तिः। ७ प्रसक्तस्य प्रतिषेधः प्रसज्यः। ८ सदृशग्राही पर्युदासः। ९ द्वैतनिषेधस्य प्रधानभावेन अद्वैतविधेरप्रधानत्वेन । १० गौण । ११ कृत्वा। १२ विशेषण। १३ विशेष्य । १४ इदं विशेष्यमिदं च विशेषणमित्यनेन प्रकारेण द्वैतप्रसङ्गः। १५ भिन्नत्वे । १६ किञ्च । १७ द्वैतात्। १८ अद्वैतस्य । अव्यतिरिक्तस्य । १९ एकत्वे। 1
हेतोरद्वैतसिद्धिश्चेद् द्वैतं स्याद्धेतुसाध्ययोः । हेतुना चेद्विना सिद्धिद्वैतं वाङ्मावतो न किम् ॥"
___ आप्तमीमांसा का० २६ । अष्टसह० पृ० १६०। "अद्वैतप्रतिपादकस्य प्रमाणस्य सद्भावे द्वैतापत्तितो नाद्वैतम्। प्रमाणाभावे अद्वैता. सिद्धिः।"
संमति० टी० पृ० ४२८ । "अद्वैतं न विना द्वैतादहेतुरिव हेतुना । संशिनः प्रतिषेधो न प्रतिषेध्यादृते क्वचित् ॥"
आप्तमीमांसा का० २७ । अष्टसह ० पृ० १६१ । "किञ्च, अद्वैतमित्यत्र प्रसज्यप्रतिषेधः, पर्युदासो वा ?...द्वैतादद्वैतस्य व्यतिरेके च द्वैतप्रसक्तिरेव, परस्परव्यावृत्तस्वरूपाव्यावृत्तात्मकत्वे तस्य द्विरूपताप्रसक्तेः। अव्यतिरेके पुनतप्रसक्तिः ।
___संमति० टी० पृ० ४२८ । 3 अस्य च विज्ञानाद्वैतवादस्य विविधरीत्या खण्डनं निम्नग्रन्थेषु द्रष्टव्यम्शाबरभा० बृहती, पञ्जिका, शास्त्रदीपिका ॥११५। मीमांसाठो. निरालम्बनवाद । योगसू०, व्यासभा०, तत्त्ववै० ४।१४। ब्रह्मसू० शां. भा० भामती २।२।२५। विधिवि० पृ० २५४ । न्यायमं० पृ. ५२६ । आप्तमी०, अष्टश०, अष्टसह० पृ० २४२ । न्यायकुमु० पृ० ११९ । यत्त्यनु० पृ० ४५ । तत्त्वार्थश्लो० पृ० ३६ । संमतिटी० पृ० ३४९ । स्या० रत्ना० पृ० १४९ । स्या० मं० का० २६ ।