SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ सू० ११७]] साकारज्ञानवादः १०५ प्रतीयते; तदप्यतदाकारं यथा जडतां प्रतिपद्यते तथाद्य (घ)नीलतामिति व्यर्थं तदाकारकल्पनम् । किञ्च, ज्ञानान्तरेण जडतैव केवला प्रतीयते, तद्वन्नीलतापि वा? न तावदुत्तरपक्षः, अर्द्धजरतीयन्यायानुसरणप्रसङ्गात् । प्रथमपक्षे तु नीलताया जडतेयमिति कुतःप्रतीतिः? नाद्यज्ञानात् ५ तेन नीलाकारमात्रस्यैव प्रतीतेः । नापि द्वितीयात्तस्य जडतामात्रविषयत्वात् । अथोभयविषयं ज्ञानान्तरं परिकल्प्यते, तश्चेदुशयेत्र साकारम् ; स्वयं जडती । निराकारं चेत्, परमतप्रसङ्गः । क्वचित्साकारतायामुक्तदोषोऽनवस्था। ननु निराकारत्वे ज्ञानस्याखिलं निखिलार्थवेदकं तत्स्यात् १० कंचित्प्रत्यासत्तिविकर्षाभावादित्यप्यपेशलम् । प्रतिनियतसाम \न तेत्तथाभूतमपि प्रतिनियतार्थव्यवस्थापकमित्यने वक्ष्यते । 'नीलाकारवजडाकारस्यादृष्टेन्द्रियायौंकारस्य चानुकरणप्रसङ्गः कारणत्वाविशेषात्त्यासत्तिविक भावाच्च' इति चोधे भवतोपि योग्यतैव शरणम्। यच्चोच्यते-'यथैवाहारकालादेः समानेऽपत्यं जननीपित्रोत्तदेकमाकारं धत्ते नान्यस्य कस्यचित्, तथा चक्षुरादेः कारणत्वाविशेषेपि नीलस्यैवाकारमनुकरोति ज्ञानं नान्यस्य' इति; तन्निरीकारज्ञानेपि समानम् । तत्कार्यत्वाविशेषेपि हि यया प्रत्यासत्त्या निं नीलमेवानुकरोति तयैव संर्वत्रानाकारत्वाविशेषेपि २० १ आद्यज्ञानम् । २ नीलतारहिता । ३ जडतया युक्ता नीलता । ४ प्रथमशानात् । ५ न जडतायाः। ६ ज्ञानान्तरात् । ७ न नीलतायाः। ८ जडता नीलता (च) विषयो यस्य । ९ तृतीयम् । १० परेण। ११ नीलतायां जडतायां च। १२ स्यात् । १३ स्वस्य। १४ शानस्य। १५ जैन । १६ नीलतायाम् । १७ उक्तदोषपरिहारार्थ ज्ञानान्तरेण जडता प्रतीयते इति चेद(द)न्यानवस्था। १८ अर्थे । १९ ताद्रप्यतदुत्पत्तिलक्षणसम्बन्ध । २० तदभाव । २१ ज्ञानम् । २२ निराकारम् । २३ पापादि । २४ मनः । २५ किञ्च । २६ ज्ञानस्य । २७ नीलाकारेण प्रत्यासत्ति। २८ इन्द्रियादिना विप्रकर्षस्य । २९ जैनैः। ३० बौद्धस्य । ३१ सौत्रान्तिकेन। ३२ पित्रादेः । ३३ कारणे । ३४ अपत्यम् । ३५ यदुक्तं त्वया समाधानम् । ३६ ज्ञानस्य । ३७ स्वभावेन । ३८ कर्तृ। ३९ अर्थ । ४० पदार्थे । "यथैवाहारकालादेः समानेऽपत्यजन्मनि । पित्रोस्तदेकमाकारं धत्ते नान्यस्य कस्यचित् ॥" प्रमाणवा० ३३६९ ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy