________________
९२
प्रमेयकमलमार्तण्डे प्रथमपरि० प्रत्येतुं शक्यः, अन्यथा सन्तानान्तरस्याप्रतिपन्नत्य स्वैप्रतिमासायोगस्यापि प्रसिद्धेस्तस्याप्यभावः । तथा च तत्प्रतिपानार्थ प्रकृतहेतूंपन्यासो व्यर्थः। अथ सन्तानान्तरं स्वस्थ खाप्रतिमासयोग स्वयमेव प्रतिपद्यते, जडस्यापि प्रतिभासयोगं तदेव प्रत्येतीति ५ मिनेष्यते ? प्रतीतेरुभयत्रापि समानत्वात् । अथाऽप्रतिपन्नेपि जडे विचारात्तद्योगः, ननु तेनाप्यस्याविषयीकरणे स एव दोषो विचारस्तत्र न प्रवर्तते । तत एव वात्र तदद्योगप्रतिपत्तिः' इति विषयीकरणे वा विचारवत्प्रत्यक्षादिनौप्यस्य विषयीकरणात्प्रति
भासायोगोऽसिद्धः । न च प्रतिपन्नस्य जडस्य प्रतिभासायोग१० प्रतिपत्तिरित्यभिधातव्यम्; "जडप्रतीतिः, प्रतिभासायोगश्चास्य' इत्यन्योन्यविरोधात्।
साध्यविकलश्चायं दृष्टान्तः, नैयायिकादीनां सुखादौ ज्ञानरूपत्वासिद्धेः । अस्मादेव हेतोस्तत्रापि ज्ञानरूपतासिद्धौ दृष्टान्तान्तरं
मृग्यम् । तत्राप्येतच्चोये तदन्तरान्वेषणमित्यनवस्था । नीलादेई. १५ष्टान्तत्वे चान्योऽन्याश्रयः-सुखादौ ज्ञानरूपतासिद्धौ नीलादेस्तन्नि
दर्शनात्तद्रूपतासिद्धिः, तस्यां च तनिदर्शनात्सुखादेस्तद्रूपतासिद्धि रिति । न च सुखादौ दृष्टान्तमन्तरेणापि तत्सिद्धिः; नीलादावपि तथैव तदापत्तेस्तैत्र दृष्टान्तवचनमनर्थकमिति निग्रहाय जायेत।
अर्थ सुखादेरज्ञानत्वे-ततः पीडानुग्रहाँभावो भवेत् । ननु २० सुखाद्येव पीडानुग्रहो, ततो भिन्नौ वा? प्रथमपक्षे-के ज्ञानत्वेन व्याप्तौ तौ प्रतिपन्नौ; यतस्तद्भावे न स्याताम् । व्यापकाभावे हि
१ शिष्यादिकम् । २ सौगतैः। ३ स्वरूपेण। ४ बोधनार्थ । ५ प्रतिभासमानत्वात् । ६ ता। ७ संबन्धं । ८ जानाति । ९ परेण । १० सौगतस्य तव । ११ सन्तानान्तरप्रतिभासयोगे जडप्रतिभासयोगे च। १२ प्रतिभासायोगः। १३ विचारात् । १४ जडस्य विचारेण । १५ अनुमान । १६ जडस्य । १७ द्वितीयविकल्पस्य । १८ असम्भव । १९ परेण । २० शान । २१ सुखादिः । २२ प्रतिभासमानत्वादित्यसात् । २३ सुखादिधर्मी शानं भवतीति साध्यं प्रतिभासमानत्वात् । दृष्टान्तेन भाव्यं पत्र। २४ यदवभासते तज्शानमित्यत्रानुमाने। २५ दुःख । २६ सुखाइःखात् । २७ उपकार । २८ अन्वयदृष्टान्ते । २९ परेण । 1 "नच नैयायिकादीन् प्रति सुखादेर्शानता सिद्धति साध्यविकलता दृष्टान्तस्य...."
संमति० टी० पृ० ४८४ ।
स्था० रत्ना० पृ० १६७ । 2 "अथ सुखादेरज्ञानत्वे ततोऽनुग्रहावभावो भवेत् , ननु किं सुखमेवाऽनुग्रहः, उत ततो भिन्नम् ?..."
संमति० टी० पृ० ४८५।