________________
प्रमेचक्रमलमार्तण्डे प्रथमपरि० জুলাঙ্গার হৃঙ্খ ?
হুইস্থা; ঐলিহি ভিল दर्शनवदस्या अप्युपपत्तेः । यथा हि तस्यार्थामावपि तदाकारं ज्ञानमुदेत्येवं कर्मादिष्वविद्यमानेष्वपि अनाद्यविद्यावासनावशात्त. दाकारं ज्ञानमिति। ५ अत्र प्रतिविधीयते। यत्तावदुक्तम्-'अहंप्रत्ययो गृहीतोऽगृहीतो
वा' इत्यादिः तत्र गृहीत एवार्थग्राहकोऽसौ, तनहँश्च खत एव । न च स्वतोऽस्य ग्रहणे स्वरूपमात्रप्रकाश निमग्नत्वाद्वहिरर्थप्रकाशकत्वाभावः, विज्ञानस्य प्रदीपवत्स्वपरप्रकाशस्वभावत्वात् ।
यच्चोक्तम्-'निर्व्यापारः सव्यापारो वेत्यादि; तदप्युक्तिमात्रम्। १० स्वपरप्रकाशस्वभावताव्यतिरेकेण ज्ञानस्य स्वपरप्रकाशलेऽपरव्या
पाराभावात्प्रदीपवत् । न खलु प्रदीपस्य स्वपरप्रकाशस्वभावताव्यतिरेकेणान्यत्तत्प्रकाशनव्यापारोऽस्ति ! न च ज्ञानरूपत्वे नीलादेः सतिघांदिरूपता घटते । न च तद्रूपतयाऽध्यवसीयमानस्य नीलादेः 'झानम्' इति नामकरणे काचिन्नः क्षतिः। नामकरण१५ मात्रेण सप्रतिघत्वावाह्यरूपत्वादेरर्थधर्मस्याव्यावृत्तेन च तद्रूपता
ज्ञानस्यैव स्वभावः; तद्विषयत्वेनानन्यवेद्यतया चास्यान्तःप्रतिभासनात्, सप्रतिघान्यवेद्यस्वभावतया चार्थस्य बहिःप्रतिभासनात् । न च प्रतिभासमन्तरेणार्थव्यवस्थायामन्यन्निबन्धनं पश्यामः।
यदप्यभिहितम्-निराकारः साकारो वेत्यादिः तदप्यभिधान२० मात्रम् ; साकारवादप्रतिक्षेपेण निराकारादेव प्रत्ययात् प्रतिकर्मव्यवस्थोपपत्तेः प्रतिपादयिष्यमाणत्वात्।
यच्चान्यदुक्तम्-न भिन्नकालोऽसौं तंद्राहक इत्यादि, तदप्यसारम् ; क्षणिकत्वानभ्युपैगमात् । यो हि क्षणिकत्वं मन्यते गृहीतेरर्थेन सम्बन्धसियर्थमन्धज्ञानेनापरं गृहीत्यन्तरं क्रियते । अपरगृहीतिरपि अर्थाद्भिन्ना अभिन्ना वेत्यादिप्रकारेणानवस्था।
१ परेण। २ इदमपि शानं समकालं भिन्नकालं वेत्यादि । अन्यशानमपि गृहीतमगृहीतमित्यादिप्रकारेण । ३ ग्रहणम् । ४ परेण । ५ शान । ६ अर्थ । ७ अर्थस्य । ८ काठिन्य। ९ छेदनाग्रहणादि । १० आस्माकं जैनानां। ११ बहिरर्थ । १२ ज्ञान। १३ वयं जैनाः। १४ परेण । १५ अहम्प्रत्ययः। १६ शानात् । १७ विषय । १८ जनैः । १९ अहम्प्रत्ययः। २० अर्थ । २१ शानार्थयोः। २२ जैनानाम् । ___1 "निराकारपक्षेऽपि भवदभिमतसाकारवादप्रतिक्षेपेण निराकारादेव प्रत्ययाद्यथा प्रतिकर्मव्यवस्था तथा प्रतिपादयिष्यते ।" स्या० रत्ना० पृ० १६३ ।
2 "यच्चेदं ग्राह्यग्राहकयोरेककालानुभवाभावेन दूषणम् ; तदप्यपास्तम् ; क्षणिक त्वानभ्युपगमात् । यो हि क्षणिकत्वं मन्यते तस्यायं दोषो शानकालेऽर्थस्यासद्भावः अर्थकाले ज्ञानस्येति तयो ह्यग्राहकभावानुपपत्तिरिति ।" व्योमवती पृ० ५२९ ।