SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ 20 प्रमेयकमलसार्तण्डे प्रथमपरि० श्चेत्, स्वरूपमात्रप्रकाश निमनत्वादहिरर्थप्रकाशकत्वासाच एव स्यात् । परतश्चेदनवस्था तस्यापि ज्ञानान्तरेण ग्रहणात् । न च पूर्वज्ञानाग्रहणेप्यर्थस्यैव ज्ञानान्तरेण ग्रहणमित्यभिधातैव्यम्। तस्यासन्नत्वेन जनकत्वेन च ग्राह्यलक्षणप्राप्तत्वात् । तदाह५ "तां ग्राह्यलक्षणप्राप्तामासन्नां जनिकां धियम् । अगृहीत्वोत्तरं ज्ञानं गृह्णीयापरं कथम्॥"[प्रमाणवा० ३३५१३] अगृहीतश्चेद्राहकोऽतिप्रसङ्गः। न च निर्व्यापारो बोधोऽर्थयाहकः, अर्थस्यापि बोधं प्रति ग्राहकत्वानुषङ्गात् । व्यापारवत्त्वे चौतोऽव्यतिरिक्तो व्यापारः, व्यतिरिक्तो वा ? आधविकल्पे-बोध. १० खरूपमात्रमेव नापरो व्यापारः कश्चित् । न चानयोरभेदो युक्तः, धर्मर्मितया भेदप्रतीतेः । द्वितीयविकल्प तु सम्बन्धासिद्धिः ततस्तस्योपकाराभावात् । उपकारे वानवस्था तन्निर्वर्तने व्यापार. स्यापरव्यापारपरिकल्पनात् । निराकारत्वे वा बोधस्य; अतः प्रतिकर्मव्यवस्था न स्यात् । साकारत्वे वा-वाह्यार्थपरिकल्पना. १५ नर्थक्यं नीलाद्याकारेण बोधेनैव पर्याप्तत्वात् । तदुक्तम् "धियो(योऽ)लादिरूपत्वे बाह्योऽर्थः किनिबन्धनः । धियोऽ(यो)नीलादिरूपत्वे बाह्योऽर्थः किन्निवन्धनः॥१॥" [प्रमाणवा० ३।४३१] तथा न भिन्नकालोऽसौ तेंद्राहकः; बोधेन स्वकालेऽविद्यमानार्थस्य २० ग्रहणे निखिलस्य प्राणिमात्रस्याशेषज्ञत्वप्रसङ्गात् । नापि सम १ अहम्प्रत्ययस्य । २ द्वितीयेन । ३ जैनैः । ४ पूर्वशानस्य । ५ उत्तरशानस्य । ६ प्राक्तनीं । ७ कर्तृ । ८ नीलादिकम् । ९ नाशातं शापकं नाम । १० देवदत्तशानं जिनदत्तेमाशातं सत् जिनदत्तस्यार्थग्राहकं भवेत् । ११ अन्यथा। १२ निर्व्यापारत्वा विशेषात् । १३ वोधात् । १४ बोधव्यापारयोः । १५ स्वरूप । १६ बोध । १७ बोधस्यायं व्यापार इति । १८ व्यापारात् । १९ बोधस्य । २० घटशानस्य घटः पटशानस्य पटो विषयः, इति प्रतिनियतविषय। २१ शानस्य । २२ निराकारले। २३ ग्राहकव्यवस्थापकाभावात्। २४ किम्प्रयोजनः। किं निबन्धनं निमित्तं व्यवस्थापकं यस्य बाह्यार्थस्य सः । २५ नीलादि । २६ अन्यथा। 1"न च पूर्वशानाग्रहणेऽपि अर्थस्यैव ग्रहणमिति वाच्यम् , तेषामासन्नत्वे सति ग्राह्यलक्षणप्राप्तत्वात् । तदाह-तां ग्राह्यलक्षण....व्योमवती पृ० ५२४ । "धियोऽसितादिरूपत्वे सा तस्यानुभवः कथम् । धियः सितादिरूपत्वे बायोऽर्थः किं प्रमाणकः ॥ २०५१॥" सखसं० पृ० ५७४ ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy