________________
सू० ११५ विज्ञानाद्वैतवादः सुप्रसिद्धः, ज्ञानस्य चक्षुरादिकारणप्रभवत्वात्तद्विपरीतत्वाच नीलाद्यर्थस्येति।
यञ्चोच्यते-'यद्भा(यदवसा)लते तज्ञानं यथा सुखादि, अवभासते च नीलादिकम्' इति तत्र किं खतोऽवमासमानत्वं हेतुः, परतो वा, अभा(अवमा समानत्वमानं का? तत्राद्यपक्षे हेतु-५ रसिद्धः। न खलु 'परनिरपेक्षा नीलादयोऽवभालन्ते' इति परस्य प्रसिद्धम् । नीलादिकमहं वेद्मि' इत्यहमहमिकया प्रतीयमानेन प्रत्ययेन नीलादिभ्यो भिन्नेन तत्प्रतिभासाभ्युपगमात् । यदि च परनिरपेक्षावभासा नीलादयः परस्य प्रसिद्धाः स्युस्तर्हि किमतो हेतोस्तं प्रति साध्यम् ? ज्ञानतेति चेत् सा यदि प्रकाशता-तर्हि १० हेतुसिद्धौ सिद्धैव न साध्या । असिद्धौ वा तस्याः कथं नासिद्धो हेतुः ? को हि नाम स्वप्रतिभासं तत्रेच्छन् ज्ञानतां नेच्छेत् ।
ननु चौहम्प्रत्ययो गृहीतः, अगृहीतो वा, निर्व्यापारः, सव्यापारो वा, निराकारः, साकारो वा, (भिन्नकालः, समकालो वा) नीलादेाहकः स्यात् ? गृहीतश्चेत्-किं खतः, परतो वा? खत-१५
१ प्रकाश । २ प्राकृतनीलकारणप्रभवत्वात् । ३ परेण भवता । ४ तस्माद् शानमिति निगमनम् । ५ प्रतिवाद्यसिद्धः । ६ शान। ७ जैनस्य । ८ परनिरपेक्षोऽवभासो येषां ते । ९ जैनस्य । १० इष्टमवाधितमसिद्ध साध्यम् । ११ शानत्वम् । १२ नीलादीनाम् । १३ नीलादौ ।
"प्रकाशमानस्तादात्म्यात्स्वरूपस्य प्रकाशकः । यथा प्रकाशोऽभिमतस्तथा धीरात्मवेदिनी ॥" प्रमाण वा० ३१३२७ । "सकृत्संवेद्यमानस्य नियमेन धिया सह ।
विषयस्य ततोऽन्यत्वं केनाकारेण सिध्यति ॥" प्रमाणवा० अलं० पृ०९१ । 2 "यत्तु संवेदनाद्वैतं पुरुषाद्वैतवन्न तत् ।
सिध्येत् स्वतोऽन्यतो वाऽपि प्रमाणात् स्वेष्टहानितः ॥" आप्तपरी० कारि० ५६ । न्यायकु० चं० प्रथमपरि० । स्या० रत्ना० पृ० १६१ ।
3 "तथा हि-परः प्रकाशयन् सम्बद्धोऽसम्बद्धो वा, गृहीतोऽगृहीतो वा, निर्व्यापारः सव्यापारो वा, निराकारः साकारो वा, मिन्नकालः समकालो वा पदार्थस्य प्रकाशकः स्यात् ?" स्या. रत्ना० पृ० १६१ । “प्रत्यक्षमर्थ तुल्यकालं वा प्रकाशयति, भिन्नकालं वा?" सन्मति० टी० पृ० ३५४ ।
"अनिर्भासं सनिर्मासमन्यनिर्भासमेव च । विजानाति न च ज्ञानं बाह्यमर्थ कथञ्चन ॥ १९९९ ॥"
तत्त्वसं० १०५५९ ।