SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे प्रथमपरि० वोपलम्भोप्यन्यवेदनाऽभावो सिद्ध सिद्ध्येत् । न चासो सिद्धः, नीलाद्यर्थस्य तत्समानक्षणैरन्यवेदनैरुपलम्भाप्रतीरित्येकेनैवोपलम्भोऽसिद्धः एतेनैकलोलीभावेनोपलम्भः सहोपलम्भचिंत्रज्ञानाकारवदशक्यविवेचनत्वं साधनमसिद्ध प्रतिपत्तव्यम् ; नीलताद्धि५ योरशक्यविवेचनत्वासिद्धेः अन्तर्बहिर्देशतया विवेकेनानयोः प्रतीतेः। अथैकस्यैवोपलम्भः; किं ज्ञानस्य, अर्थस्य वा ? ज्ञानस्यैव चेत्; असिद्धो हेतुः । न खलु परं प्रति ज्ञानस्यैवोपलब्धिः सिद्धा; अर्थस्याप्युपलब्धेः। न चार्थस्याभावादनुपलब्धिः, इतरेतराश्रया१० नुषङ्गात्-सिद्धे ह्यर्थाभावे ज्ञानस्यैवोपलस्माः सिद्धयेत् , तदुपलम्भसिद्धौ चार्थाभावसिद्धिरिति । अथार्थस्यैवैकस्योपलस्मः, नन्वेवं कथमर्थाभावसिद्धिः? ज्ञानस्यैवाभावसिद्धिप्रसङ्गात् । उपलम्भनिवन्धनत्वाद्वस्तुव्यवस्थायाः । स्वरुपकारणसेदाच्चानयोर्भेदः, ग्राहकस्वरूपं हि विज्ञानं नीलादिकं तु ग्राह्यस्वरूपम् । अभेदे च १५ तयोाहकता ग्राह्यता वाऽविशेषेण स्यात् । कारणमेदस्तु १ अर्थस्य । २ उपलम्भः । ३ सन्तानान्तरवेदनैः। ४ पुरुष । ५ एकत्वेनोपलम्भनिराकरणपरेण ग्रन्थेन । ६ चित्रज्ञानाद्यथा तदाकाराणां श्वेतादीनामशक्यविवेचनत्वं यथा न तथात्र । ७ अयमर्थ इदं शानमिति विवेकाभावः। ८ परेण । ९ नीलनीलशानयोः । १० पृथक्त्वेन। ११ अर्थसंविदोरभेदः एकस्यैवोपलम्भात् । १२ जैनं प्रति । १३ अर्थशानयोर्घटपटयोरिव । __ 1 "एतेनैकलोलीभावेनैवोपलम्भः सहोपलम्भनियमः चित्रशानाकारवदशक्यविवेचनत्वं साधनमसिद्ध प्रतिपत्तव्यम् , अन्तर्बहिर्देशस्थतया विवेकेन शानार्थयोः प्रतीतेः।" स्या० रत्ना० पृ० १५९। 2 "अपि च सहोपलम्भः किं शानयोः, उत अर्थयोः, शानार्थयोर्वा ?" तत्त्वोप० पृ० १२५ । "किञ्च, एकस्यैवोपलम्भो ज्ञानस्य, अर्थस्य वा?" सन्मति० टी० पृ० ३५३ । 3 "अथ वाह्यार्थाभावादेकोपलम्भनियमः; तन्न; इतरेतराश्रयत्वप्रसङ्गात् । तथा चैकोपलम्भनियमाद् बाह्यार्थाभावसिद्धिः तत्सिद्धेश्च एकोपलम्भनियमसिद्धिरित्येकाभावादितराभावः।" व्योमवती पृ० ५२७ । 4 "तथा शानं ग्राहकवरूपं नीलादि ग्रामस्वरूपमित्यनयोः शुक्लपीतयोरिव स्वभावभेदात् भेदः । अभेदे हि बोधोऽपि नीलस्य ग्राह्यं स्यात् नीलञ्च बोधस्य ग्राहकमिति स्यात् , न चैतदस्ति । कारणभेदाच्च नीलाद्बोधोऽर्थान्तरम् ; तथा हि-बोधाद् बोधरूपता, इन्द्रियाद्विषयप्रतिनियमः, विषयादाकारग्रहणमिति भेदादेषां भेद एव ।" ___ व्योमवती० पृ० ५२७ ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy