________________
.
सू० ११५] विज्ञानाद्वैतवादः
किञ्च, अस्मादभेदैः-एकत्वं साध्येत, भेदाभावो वा? तत्रादिकल्पोऽसङ्गतः, भावाऽभावयोस्तादात्म्यतदुत्पत्तिलक्षणसम्बन्धाभावतो गम्यगमकभावायोगात् । प्रसिद्ध हि धूमपावकयोः कार्यकारणभावे-शिंशपात्ववृक्षत्वयोश्च तादात्म्ये प्रतिवन्धे गम्यगमकभावो दृष्टः । द्वितीयविकल्पषि-अमावस्वभावत्वात्साध्यसाध-५ नयोः सम्बन्धाऽभावः, तादात्मयतदुत्पत्त्योरर्थस्वभावप्रतिनियमात् । अनिष्टसिद्धिश्च; सिद्धपि मेदप्रतिवे विज्ञप्तिमात्रयस्यातोऽप्रसिद्धः, मेदप्रतिषेधमात्रेऽस्य चरितार्थत्वात् । ततस्तत्तिद्धौ व ग्राह्यग्राहकावादिप्रसङ्गो वहिरर्थसिद्धरपि प्रसाधैंकोऽनुषज्यते।
अथैकोपलम्भः सहोपलम्भः। ननु किमेकत्वेनोपलम्भ एको- १० पलम्भः स्यात् , एकेनैव वोपलम्भः, एकलोलीभावेन चोपलम्भः, एकस्यैवोपलम्भो वा? प्रथमपक्षे-साध्यसमो हेतुर्यथाऽनित्यः शब्दोऽनित्यत्वादिति । बहिरन्तर्मुखाकारतया चै नीलतद्धियो)दस्य सुप्रतीतत्वात् कथं तयोरेकत्वेनोपलम्भः सिद्धयेत् ? एके-
१ हेतोः । २ साध्यविचारः । ३ अर्थसंविदोः । ४ प्रसज्यः । ५ साध्य । ६ अआवो हेतुः। ७ एकत्व। ८ साध्यसाधन । ९ सम्बन्धे। १० शशविषा. पाश्चविषाणयोरिव । ११ तुच्छाभावसिद्धिः। १२ अस्माद्धेतोः। १३ अभावे । १४ क्रमेणोपलम्भाभावमात्रात् इत्यस्सात्साधनात् । १५ किञ्च । १६ व्याप्यव्यापक। १७ यथा ग्राह्यं ग्राहकमिति द्वैतं तथा बाह्योऽर्थः विज्ञानमिति द्वैतसिद्धिरपि स्यादित्यर्थः । १८ अर्थसंविदोस्तादात्म्यात् । १९ नीलतद्वतोः सर्वथा तादाम्यात् । २० शानेन । २१ कथञ्चित्तादात्म्य । २२ किञ्च । २३ स्वरूपासिद्धो हेतुः। २४ शानेन । 1 "किञ्च, क्रमेणोपलम्भाभावमात्रादभेद एकत्वं साध्यते, भेदाभावो वा?"
स्था० रत्ना० पु. १५८ । 2 "अथैकोपलम्भः सहोपलम्भः, ननु किमेकत्वेनैवोपलम्भः एकोपलम्भः, एकेनैक वा, एकस्यैव वा, एकलोलीमावेनैव वा?"
स्या. रत्ना० पृ० १५८ । 3 "तदेकोपलम्भनियमोऽप्यसिद्धः साध्यसाधनयोरविशेषात् ।" अष्टश०, अष्टसह० पृ० २४३ । "नचैकस्यैवोपलम्भनियमो हेतुः; अशब्दार्थत्वात् , साध्याविशिष्टत्वाच्च । तथाऽनेकरूपाधवयवस्य हि तस्यार्थस्योपलम्भे स्वरूपाऽसिद्धोऽसीति ।" व्योमवती पू० ५२७ । स्या० रत्ना० पृ० १५८ ।
4 "नापि नीलतदुपलम्भयोरेकेनैवोपलम्भः; तथाहि-नीलोपलम्भेऽपि तदुपलम्भानामन्यसन्तानगतानामुपलम्भाव।" तत्वसं० पं० पृ० ५६७ । “अकेनैवोपल. भ्यमानत्वं साधनम् : न; अन्यवेदनाऽभावस्याप्रसिद्धेः । अर्थस्तु तत्समानक्षणैरन्यैरप्युपलभ्यते इत्येकेनैवोपलभ्यमानत्वमसिद्धम् ।" व्योमव० पु. ५२७ ।