________________
८०
प्रमेयकमलमार्तण्डे प्रथमपरि० शालिद्धः, नीलार्थोपलम्भमन्तरेणाप्युपरतेन्द्रियव्यापारेण सुखादिसंवेदनोपलस्मात् । अनैकान्तिकश्चायम्; रूपालोकयोर्मिनयोरपि सहोपलस्भनियमसम्भवात् । तथा सर्वज्ञज्ञानस्य तज्ज्ञेयस्य
चेतरजनचित्तस्य सहोपलम्भनियमेऽपि भेदाभ्युपंगमादनेकान्तः। ५ ननु सर्वशः सन्तानान्तरं वा नेष्यते तत्कथमयं दोषः? इत्यसत्
सकललोकसाक्षिकस्य सन्तानान्तरस्थानभ्युपगममात्रेणाऽभावाsसिद्धेः । सुगतश्च सर्वज्ञो यदि परमार्थतो नेष्यते तर्हि किमर्थ "प्रमाणभूय" [प्रमाणसमु० श्लो० १] इत्यादिनासौ समर्थितः,
स्तुतश्चाद्वैतादिप्रकरणानामादौ दिग्नागादिभिः सद्भिः । स खलु १० तेषामसति सत्त्वकल्पने वुद्धिःप्रवर्त्तते । विचार्य पुनस्त्यागाददोर्षे
इत्यप्यसारम् ; त्यागाङ्गत्वे हि तस्य वरं पूर्वमेव नाङ्गीकरणमीश्वरादिवत् । अद्वैतमेव तथा स्तूयते इत्यसि वार्तम् । तत्र स्तोतव्यस्तोतृस्तुतितत्फलानामत्यन्तासम्भवात् ।
किञ्च, सहोपलम्भः किं युगपदुपलम्मः, क्रमेणोपलम्भीभावो १५वा स्यात्, एकोपलम्भो वा? प्रथमपक्षे विरुद्धो हेतुः, 'सह शिष्येणागतः' इत्यादौ यौगपद्यार्थस्य सहशब्दस्य मेदे सत्येवो. पलम्भात् । न ह्येकस्मिन् यौगपद्यमुपपद्यते । द्वितीयपक्षेप्यसिद्धो हेतुः क्रमेणोपलम्भाभावमात्रस्य वादिप्रतिवादिनोरसिद्धत्वात् ।
१ प्रतीति। २ निवृत्तेन्द्रिय। ३ पुरुषेण। ४ न चैकत्वम् । ५ परेण । ६ शानान्तरं वा। ७ सौगतैः। ८ जगद्धितैषिणे प्रणम्य शास्त्रे सुगताय तापिने(तायिने)। ९ असति सत्त्वकल्पने बुद्धिप्रवृत्त्यभावलक्षणो दोषः। १० फल्गु । ११ दिङ्गागादि । १२ साधनं विचार्यते । १३ प्रसज्यः। १४ विपरीतनिश्चिताविनाभावो विरुद्धः । १५ उपाध्याये। १६ असत्सत्तानिश्चयोऽसिद्धः। १७ योगाचारजैनाभ्यां तुच्छखभावप्रागभावप्रध्वंसाभावलक्षणाऽभावयोरनभ्युपगमात् । १८ तुच्छरूपाभावस्य ।
"अथ साहाय्यं यौगपy वा विवक्षितं सहोपलभ्यमानत्वं तथापि तयो देनैव व्याप्तत्वात विरुद्धत्वम् । तथा सर्वशः स्वचित्तेन सहोपलभते परचित्तं न च तस्य तसादमेद इति व्यभिचारः सर्वेषां सर्वशताप्रसङ्गात् ।” व्योमव० पृ० ५२७ ।
1“यच्च सहोपलम्भनियम उक्तः सोऽपि विकल्पं न सहते । यदि ज्ञानार्थयो: साहित्येन उपलम्भः ततो विरुद्धो हेतुर्नामेदं साधयितुमर्हति साहित्यस्य तद्विरुद्धमेद. व्याप्तत्वात् अभेदे सदनुपपत्तेः । अथैकोपलम्भनियमः, न, एकत्वस्यावाचकः सह शब्दः । अपि किमेकत्वेनोपलम्भः, आहो एक उपलम्भो शानार्थयोः । न तावदेकरवे. नोपलम्भ इत्याह-बहिरुपलब्धेश्च विषयस्य ।" ब्रह्मसू० शां० मा० भामती २२।२८ सन्मति० टी० पृ० ३५३ । "सहोपलम्भोऽपि किं युगपदुपलम्मः, क्रमेणोपलम्भाभावः, एकोपलम्भो वाऽभिप्रेतो यस्य नियमो हेतुः स्यात् " सा० रखा. पृ० १५५॥