SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ सू० ११५] विज्ञानाद्वैतवादः चैवं वौदिनोऽविद्याविद्ययोर्वाध्यवाधकभावः स्यात् तत्राप्युक्तविकल्पजालस्य समानत्वात् ? यच्च समारोपितादशि मेदादित्यायुक्तम् । तदप्ययुक्तम् आत्मनः सांशत्वे सत्येव सेव्यवस्थोपपत्तनिरंशस्यान्तर्वहिर्वा वस्तुनः सर्वथाप्यप्रसिद्धरित्यात्माद्वैताभिनिवेशं परित्यज्यान्तर्वहिश्चानेकैप्रकारं ५ वस्तु वास्तवं प्रमाणप्रसिद्धमुररीकर्त्तव्यम् । ननु चाविभौगबुद्धिस्वरूपव्यतिरेकेणार्थस्याप्रतीतितोऽलवाद्विज्ञप्तिमात्रमेव तत्त्वमभ्युपगन्तव्यं तबाहकं च ज्ञानं प्रमाणमिति तन्न; यतोऽविभौगस्वरूपावेदकप्रमाणसद्भावतो विज्ञप्तिमानं तत्त्वमभ्युपगम्यते, बहिरर्थसद्भावबाधकप्रमाणावष्टंभेन वा? यद्यायः १० पक्षस्तत्रापि तथाभूतविज्ञप्तिमात्रं ग्राहकं (मात्रग्राहक) प्रत्यक्षम् , अनुमानं वा? प्रमाणान्तरस्य सौगतैरनभ्युपगमात् । तत्र न तावप्रत्यक्षं वहिरर्थसंस्पर्शरहितं विज्ञप्तिमात्रमेवेत्यधिगन्तुं समर्थम्; अर्थाभावनिश्चयमन्तरेण विज्ञप्तिमात्रमेवेत्यवधारणानुपपत्तेः। "अयमेवेति यो ह्येष भावे भवति निर्णयः। नैप वस्त्वन्तरामावसं वित्त्य गमाहते। मी० श्लो० अभावपरि० श्लो० २० इत्यभिधानात् । न चार्थाभावः प्रत्यक्षाधिगम्यः; बाह्यार्थप्रकाशकत्वेनैवास्योत्पत्तेः । न च प्रत्यक्षे प्रतिभासमानस्याप्यर्थस्याभावो १ बाधकेन शानमपहियते विषयो वेत्येवं वादिनः। २ उक्तविकल्पैरतीतस्योत्तरकालीनं न बाधकमिति । ३ अविद्यया किं ज्ञानमपहियते विषयः फलं वा । ४ सहशिः वर्त्तते इति सांशः। ५ सुखादिस्तम्भादि च। ६ पारमार्थिकम् । ७ भवता परेण। ८ विज्ञानाद्वैतवादी योगाचार आह। ९ ग्राह्यग्राहकसंवित्तिरूपो विभागः । १० जनादिभिः। ११ इदं ज्ञानमयं विषय इति विभागः । १२ ज्ञापक। १३ परेण । १४ बलेन । १५ प्रकृते विशप्तिमात्रे । १६ घटते। १७ बहिरर्थ । १८ सद्भावाद्विना। १९ अस्तीति साध्यः। __1 ब्रह्माद्वैतवादस्य विविधरीत्या पर्यालोचनं निम्नग्रन्थेषु द्रष्टव्यम्-मी० श्लोकवा० पृ० ६६२-, तत्त्वसं० पुरुषप० पृ० ७५-, न्यायमं० पृ० ५२६-, आप्तमीमांसा अष्टश० अष्टसह० पृ० १५६-द्वि० परि०, न्यायकु० चं० प्रथमपरि०, सन्मति० टी० पृ० २७७-२८५-, स्या. रत्ना० पृ० १९०-। 2 "ननु किमविभागबुद्धिस्वरूपावेदकप्रमाणसद्भावतो विज्ञप्तिमात्रमभ्युपगम्यते, आहोस्विदर्भसद्भावबाधकप्रमाणसद्भावसङ्गतेरिति वक्तव्यम् ? तत्र यद्यायः पक्षः स न युक्तः, यतस्तथाभूतविशप्तिमात्रोपग्राहकं प्रत्यक्षं वा तद्भवेदनुमानं वा...।" सन्मति. टी० पृ. ३४९।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy