SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्चण्डे [प्रथमपरि० समानविपयल्य संवादकत्वमेव न वाधकत्वम् । न खलु माकन घटज्ञानमुत्तरेण तद्विषयज्ञानेन बाध्यते । भिन्न विषयस्य वाधको चातिप्रसङ्गः । अर्थोऽपि प्रतिभातः, अप्रतिभातो वा बाधकः स्यात् । तत्राद्यविकल्पोऽयुक्तः, प्रतिभातो ह्यर्थः स्वज्ञानस्य सत्य५त्तामेवावस्थापयति, यथा पटः पटज्ञानस्य । द्वितीयविकल्पेऽस्मि 'अप्रतिभातो बाधकश्च' इत्यन्योन्यविरोधः। न हि खरविषाणमप्रतिभातं कस्यचिद्वाधकम् । किञ्च, कैचित्कदाचित्कस्यचिद्वाध्यबाधकभावाभावाभ्यां सत्येतैरत्वव्यवस्था, सर्वत्र सर्वदा सर्वस्य . वा? प्रथमपक्षे-सत्येतरत्वव्यवस्थासङ्करः, मरीचिकाचांदी १० जलांदिसंवेदनस्यापि क्वचित्कदाचित्कस्यचिद्वाधकस्यानुत्पत्तेः सत्यसंवेदने तूत्पत्तेः प्रतीयमानत्वात् । द्वितीयपक्षे तु-सकलदेशकालपुरुषाणां बाधकानुत्पत्त्युत्पत्त्योः कथमसर्वविदा वेदनं तत्प्रतिपत्तुः सर्ववेदित्वप्रसङ्गात् ? इत्ययनल्पतमोविलसित ; रजतप्रत्यायस्य शुक्तिकाप्रत्ययेनो१५त्तरकालभाविनकविषयतया वाध्यत्वोपलम्मात् । ज्ञानमेव हि विपरीतार्थख्यांपकं बाधकमभिधीयते, प्रतिपादितासदर्थख्यापन तु बाध्यम् । ननु चैतद्गतसर्पस्य घृष्टिं प्रति यष्ट्यभिहननमिवाभासते, यतो रजतज्ञानं चेदुत्पत्तिमात्रेण चरितार्थ किं तस्याऽतीतस्य मिथ्यात्वापादनलक्षणयापि बाधया? तदसत्; एतदेव हि २० मिथ्याज्ञानस्यातीतस्यापि वाध्यत्वम्-यदस्मिन् मिथ्यात्वापाँदनम् केचित्पुनःप्रवृत्तिप्रतिषेधोऽपि फलम् , अन्यथा रजतज्ञानस्य बाध्यत्वासम्भवे शुक्तिकादौ प्रवृत्तिरविरता प्राप्नोति । कथं १ एक । २ अप्रतिभातत्वबाधकत्वयोः। ३ विषये । ४ असत्यत्व । ५ ज्ञानस्य । ६ शानस्य । ७ एकत्रानेकेषां युगपत्प्राप्तिः सङ्करः। ८ आदिपदेन शुक्तिका । ९ रजतादि । १० अज्ञान । ११ प्रभाचन्द्रदेवः परं प्रति व्रते। १२ इदं रजतमिति ज्ञानस्य। १३ शुक्तिकैकविषयः। १४ रजतादि। १५ उत्तरम् । १६ शुक्तिशकले प्रतिभातरजताद्विपरीतोऽर्थः शुक्तिशकलम् । १७ शुक्तिकैकविषयख्यापकम् । १८ उत्तरशानेन । १९ बोधित । २० बोधितमसदर्थख्यापन (प्रतिपादन )मसदर्थग्रहणं यस्य पूर्वज्ञानस्य । २१ बाध्यबाधकमावलक्षणम् । २२ रजतप्रत्ययस्य शुक्तिविषयप्रत्ययः उत्तरकालभावी बाधकः इति प्रतिपादनम्। २३ मिथ्याशानं । २४ प्रयोजनम् । २५ प्रथमज्ञाने। २६ उत्तरज्ञानेन । २७ विषये। २८ मिथ्या-- स्वापादनाभावे। 1"बाधाविरहः किं सर्वपुरुषापेक्षया आहोस्वित्प्रतिपत्रपेक्षया ?" तत्वोप० १०३। -
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy