SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ ७८ प्रमेयकमलमार्तण्डे [ সক্ষমৃহিণ্ড विज्ञप्तिमात्रस्याप्यभावानुषशात् । न तैमिरिकप्रतिभाले प्रति भासमानेन्दुद्वयवनिर्मलमनोऽक्षप्रभवप्रतिमासविषयस्याप्यसत्त्वमित्यभिधातव्यम् । यतस्तैमिरिकप्रतिभासविषयस्यार्थस्य बाध्यमानप्रत्ययविषयत्वादसत्त्वं युक्तम् , न पुनः सत्यप्रतिभासविषय५स्याऽवाध्यमानप्रत्ययविषयत्वेन सत्त्वसम्भवात् । बाध्यबाधकभावश्चानन्तरमेव ब्रह्माद्वैतप्रघट्टके प्रपञ्चितः । तन्नार्थाभावोऽध्ययक्षेणाधिगम्यः। नाप्यनुमानेन; अध्यक्षविरोधेऽनुमानस्याप्रामाण्यात् । “प्रत्यक्षनिराकृतो न पक्षः" [ ] इत्यभिधानात् । न च बाह्यार्था१०वेदकाध्यक्षस्य भ्रान्तत्वान्न तेनानुमानबाधेत्यभिधातव्यम् । अन्यो ऽन्याश्रयात्-सिद्धे हार्थाभावे तद्रोहाध्यक्ष प्रान्त सिद्ध्येत् , तत्सिद्धौ चार्थाभावानुमानस्य तेनाऽवाधेति । किञ्च, तदनुमान कार्यलिङ्गप्रभवम् , स्वभावहेतुसमुत्थं वा, अनुपलब्धिप्रसूतं वा? न ताव प्रथम द्वितीयविकल्प कार्यस्वभावहेत्वोर्विधिसाधकत्वाभ्युप१५गमात्। “अत्र द्वौ वस्तुसाधनौ" [न्यायवि० पृ० ३९] इत्यभिधानात् । तृतीयविकल्पोप्ययुक्तः, अनुपलब्धेरसिद्धत्वाद्वाह्यार्थस्याध्यक्षादिनोपलम्भात् । किञ्च, अदृश्यानुपलब्धिस्तदभावसाधिका स्यात् , दृश्यानुपलब्धिर्वा ? प्रथमपक्षेऽतिप्रसङ्गः। द्वितीयपक्षे तु सर्वत्र सर्वदा सर्वथार्थाभावाऽप्रसिद्धिः, प्रतिनियतदेशादाँवेवा२० स्यास्तझावसाधकत्वसम्भवात् । एतेन बहिरर्थसद्भावबाधकप्रमाणावष्टम्भेन विज्ञप्तिमात्रं तत्त्वमभ्युपगम्यत इत्येतन्निरस्तम्। तत्सद्भावबाधकप्रमाणस्योक्तप्रकारेणासम्भवात्। १ यत्प्रतिभासते तदस्तीति अनैकान्तिको न । (?) २ प्रतिभासमानत्वाविशेषात् । . ३ शान। ४ बायार्थस्य । ५ परेण । ६ नेमौ द्रौ चन्द्रौ। ७ ज्ञानाद्वैतवादिनां बाध्यबाधकभावो नास्तीत्युक्ते आह। ८ पूर्व । ९ भा (तृतीया, तृतीयासमास इत्यर्थः)। १० परेण । ११ अनुमानात् । १२ अर्थ। १३ सिद्धा। १४ अस्तित्व । १५ त्रिषु हेतुषु मध्ये। १६ पिशाचादेरप्यभाबसाधिका। १७ कालप्रकार । १८ बहिराभावसाधकप्रमाणनिराकरणपरेण ग्रन्थेन । 1 "नाप्यनुमानं बाह्याभावमावेदयति, प्रत्यक्षाभावे तस्यायोगात् । न च प्रत्यक्षविरोधे अनुमानप्रामाण्यं संभवति 'प्रत्यक्षनिराकृतो न पक्षः' इति वचनात् ।" सन्मति० टी० पृ० ३५१ । 2 "स्वरूपेणैव स्वयमिष्टोऽनिराकृतः पक्ष इति । (पृ० ७९) अनिराकृत इति । एतल्लक्षणयोगेऽपि यः साधयितुमिष्टोऽप्यर्थः प्रत्यक्षानुमानप्रतीतिस्ववचनैर्निराक्रियते न स पक्ष इति प्रदर्शनार्थम् ।" न्यायबि० पृ० ७९,८३ ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy